________________
मणिपीठिका । क्षुल्लो महेन्द्रध्वजोऽस्यां, चैत्यस्तम्भोक्तमानभृत् ॥४९॥ ध्वजादेतस्मात्प्रतीच्यां, विमानस्वामिनो भवेत् । चोपालाख्यः प्रहरणकोशः शस्त्रशताश्चितः॥५०॥ मानमस्या वक्ष्यमाणसभाऽर्हद्वेश्मनामपि । तवारमण्डपस्तूपवृक्षादीनां च तीर्थपैः॥५१॥ नन्दीश्वरद्वीपगतचैत्यवत् सकलं स्मृतम् । पीठिकादौ विशेषस्तु, प्रोक्तोऽत्राग्रेऽपि वक्ष्यते ॥५२॥ एवं सभा सुधर्माख्या, लेशतो वर्णिता मया । वैमानिकविमानेषु, सिद्धान्तो
क्तानुसारतः॥५३॥ तस्याः सौधाः सभाया, अर्थशान्यां भवेदिह । अहदायतनं नित्यमत्यन्तविततद्युति। 18॥५४॥ भवेत्सर्व सुधर्मावदिह द्वारत्रयादिकम् । विज्ञेयं तत्स्वरूपं च, पूर्वोक्तमनुवर्तते ॥ ५५ ॥ यावद्भ्य-18
न्तरे भागे, स्युर्मनोगुलिकाः शुभाः। तथैव गोमानसिकास्ततश्चैतद्विशिष्यते ॥५६॥ तस्य सिद्धायतनस्य, मध्यतो मणिपीठिका । उपर्यस्या भवत्येको, देवच्छन्दक उद्भटः॥५७॥ अष्टोत्तरशतं तत्र, प्रतिमाः शाश्व-12 तार्हताम् । वैमानिका देवदेव्यो, भक्तितः पूजयन्ति याः॥५८॥ घण्टाकलशभृङ्गारदर्पणा: सुप्रतिष्ठकाः। स्थाल्यो मनोगुलिकाश्च, चित्ररत्नकरण्डकाः॥ ५९॥ पात्र्यो वातकरकाश्च, गजाश्वनरकण्ठकाः। महोरगकिंपुरुषवृषकिन्नरकण्ठकाः ॥ ६०॥ पुष्पमाल्यचूर्णगंधवस्त्राभरणपूरिताः । चनेयः सिद्धार्थलोमहस्तकैरपि ता भृताः॥१॥ पुष्पादीनां पटलानि, च्छत्रचामरकेतवः । तैलकोष्ठशतपत्रतगरैलासमुद्गकाः॥६२॥ हंसपादहरितालमनःशिलाञ्जनभृताः। समुद्रकाश्च घण्टाद्यास्तत्राष्टाढ्यं शतं समे ॥ ६३ ॥ अष्टोत्तरशतं धूपकडुच्छकाश्च रत्नजाः। भवन्ति सिद्धायतने, श्रीजिनप्रतिमाग्रतः॥ ६४॥ अथैतस्माजिनगृहादेशान्यां महती भवेत् ।
in Educationa l
For Private sPersonal use Only
C
inelibrary.org