________________
लोकप्रकाशे २६ ऊर्ध्व
लोकसर्गे
॥ ३१७ ॥
Jain Educatio
॥ ३३ ॥ तस्यां सौधर्म्य सभायां, स्युर्मनोगुलिकाभिधाः । सहस्राण्यष्टचत्वारिंशद्रलमयपीठिकाः ॥ ३४ ॥ प्राक्प्रतीच्योः सहस्राणि तत्र षोडश षोडश । अष्टाष्ट च सहस्राणि, दक्षिणोत्तरयोर्दिशोः ॥ ३५ ॥ स्वर्णरूप्यमयास्तासु, फलका नागदन्तकैः । माल्यदामाश्चितैर्युक्ताः स्युर्गोमानसिका अपि ॥ ३६ ॥ तथैव तावत्य एव शय्यारूपास्त्विमा इह । फलका नागदन्ताढ्या, घट्यो धूपस्य तेषु च ॥ ३७ ॥ तस्याः सौधर्म्याः सभाया, मध्ये च मणिपीठिका । उपर्यस्या माणवकञ्श्चैत्यस्तम्भो भवेन्महान् ॥ ३८ ॥ तुङ्गः पष्टिं योजनानि, विस्तृतकयोजनम् । एकं योजनमुद्विद्धः, शुद्धरत्नप्रभोद्भटः ॥ ३९ ॥ उपर्यधो योजनानि, द्वादश द्वादश ध्रुवम् । वर्ज यित्वा मध्यदेशे, रैरूप्यफलकाञ्चितः ॥ ४० ॥ फलकास्ते वज्रमयनागदन्तैरलङ्कृताः । तेषु सिक्यकविन्यस्ता, वज्रजाताः समुद्गकाः ॥ ४१ ॥ एतेषु चार्हत्सक्धीनि निक्षिपन्त्यसकृत्सुराः । प्राच्यानि च विलीयन्ते कालस्य परिपाकतः ॥ ४२ ॥ विमानस्वामिनामेतान्यन्येषामपि नाकिनाम् । दैवतं मङ्गलं चैत्यमिव पूज्यानि भक्तितः ॥ ४३ ॥ एतत्प्रक्षालनजलाभिषेकेण क्षणादपि । क्लेशावेशादिका दोषा, विलीयन्ते सुधाभुजाम् ॥ ॥ ४४ ॥ एषामाशातनाभीताः, सभायामिह निर्जराः । न सेवन्ते निधुवनक्रीडां व्रीडां गता इव ॥ ४५ ॥ चैत्यस्तम्भादितः प्राच्यां स्याद्रत्नपीठिकाsत्र च । विमानस्वामिन: सिंहासनं परिच्छदान्वितम् ॥ ४६ ॥ तस्यैव चैत्यस्तम्भस्य, प्रतीच्यां मणिपीठिका । विमानस्वामिनो योग्यं, शयनीयं भवेदिह ॥ ४७ ॥ चैत्यस्तम्भपीठि - कात्र, षोडशाऽऽयतविस्तृता । अष्टोच्चा योजनान्यर्द्धमानास्तिस्रोऽपरास्ततः ॥ ४८ ॥ शयनीयादधैशान्यां महती
ational
For Private & Personal Use Only
विमानानां द्वारादि म
नोगुलिका
दि
२०
२५
॥ ३१७ ॥
२८
Jainelibrary.org