SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ताम् ॥ १७॥ अमी समग्राः प्रासादा, वैडूर्यस्तम्भशोभिताः। उत्तुङ्गातोरणा रत्नपीठिकाबन्धबन्धुराः ॥१८॥ विमानखामिसंभोग्यरत्नसिंहासनाञ्चिताः । यथार्ह तत्परीवारसुरभद्रासनैरपि ॥ १९ ॥ एवं सामानिकादीनामपि संपत्तिशालिनाम् । रम्या भवन्ति प्रासादा, वर्णरत्नविनिर्मिताः ॥२०॥ पौरस्थानीयदेवानामन्येषाम-| प्यनेकशः । स्वस्वपुण्यानुसारेण, प्रासादाः सन्ति शोभनाः॥ २१ ॥ तत एव विमानास्ते, शृङ्गाटकैरलताः। त्रिकैश्चतुष्कैरपि च, चत्वरैश्च चतुष्पथैः॥२२॥ चतुर्मुखरपि महापथैः समन्ततोऽञ्चिताः । प्राकाराहालकवरचरिकाद्वारतोरणैः॥ २३॥ पूर्वोक्तमूलप्रासादादथैशान्यां भवेदिह । सभा सुधर्मा तिसृषु, दिक्षु द्वारैत्रिभियुता ॥ २४ ॥ प्राच्यां याम्यामुदीच्यां च, भान्ति द्वाराणि तान्यपि । अष्टभिर्मङ्गलैइछत्रैर्विराजन्ते ध्वजा|दिभिः ॥ २५॥ प्रतिद्वारमथैकैको, विभाति मुखमण्डपः। त्रिभिारैर्युतः सोऽपि, सभावगम्यभूतलः ॥ २६ ॥ प्रतिद्वारमथ मुखमण्डपानां पुरः स्फुरन् । प्रेक्षागृहमण्डपः स्यात्रिद्वारः सोऽपि पूर्ववत् ॥ २७ ॥ प्रेक्षागृहमण्डपानां, मध्ये वज्राक्षपाटकः । सिंहासनान्विता तत्र, प्रत्येक मणिपीठिका ॥ २८ ॥ प्रतिद्वारं तथा प्रेक्षागृहमण्डपतः पुरः। मध्ये चैत्यस्तृपयुक्ताश्चतस्रो मणिपीठिकाः ॥ २९॥ प्रतिद्वारमथैतेभ्यः, स्तूपेभ्यः स्युश्चतुर्दिशम् । एकैका पीठिका स्तूपाभिमुखप्रतिमाञ्चिता ॥ ३०॥ तेषां च चैत्यस्तूपानां, पुरतो मणिपीठिका । प्रतिद्वारं चैत्यवृक्षस्तत्र नानाद्रुमान्वितः॥ ३१ ॥ चैत्यवृक्षेभ्यश्च तेभ्यः, पुरतो मणिपीठिका प्रतिद्वारं भवेत्तत्र, महेईन्द्रध्वज उच्छ्रितः ॥ ३२॥ पञ्चवर्णहखकेतुसहस्रालङ्कतः स च । छन्त्रातिच्छन्त्रकलितस्तुङ्गो गगनमुल्लिखन् lain Educa OM.jainelibrary.org For Private Personal Use Only ional
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy