________________
लोकप्रकाशे २६ ऊर्ध्वलोकस
॥३१६॥
Jain Education
योजनानां ' स्युः सपादामेकत्रिंशतमुच्छ्रिताः ॥ ८ ॥ तेषामपि परीवारप्रासादाः स्युः समुच्छ्रिताः । योजनानि पञ्चदश, सार्द्धं क्रोशद्वयं तथा ॥ ९ ॥ सर्वेऽप्यमी स्युः प्रासादा, निजोच्चत्वार्द्धविस्तृताः । एवं च पञ्च प्रासादपरिपाठ्यः प्रकीर्त्तिताः ॥ १० ॥ एकैकस्यां च दिश्येकचत्वारिंशं शतत्रयम् । त्रयोदश शताः पञ्चषष्ट्याढ्याः सर्वसंख्या ॥ ११ ॥ राजप्रश्नीयटीकाया, अभिप्रायोऽयमीरितः । तत्सूत्रे तु तिस्र एव, परिपाठ्यः प्ररूपिताः ॥ ॥ १२ ॥ पञ्चाशीतिरमी सूत्रमते तु सर्वसंख्यया । सूत्रवृत्त्योर्विसंवादे, निदानं वेद् तत्त्ववित् ॥ १३ ॥ पञ्चमाङ्गे द्वितीयस्य, शतस्योद्देशकेऽष्टमे । वृत्तौ चतस्रः प्रासादपरिपाट्यः प्ररूपिताः ॥ १४ ॥ एवं चात्र मतत्रयं । विचार सततौ च महेन्द्रसूरिभिरेवमुक्तं - "ओआरिअलयणंमी, पहुणो पणसीइ हुंति पासाया । तिसय इगचित्त कत्थइ कत्थइ पणसट्टी तेरसयं ॥ १५ ॥ पणसीई इगवीसा पणसी पुण एगचत्त तिसईए । तेरससय पणसट्ठी तिसई इगचत्त पइककुहं ॥ १६ ॥” “विमानेषु प्रथमं प्राकारस्तस्य सर्वमध्ये उपरिकालयनं पीठिकेत्यर्थः, तस्यां सर्वमध्ये प्रभोः पञ्चाशीतिः प्रासादाः, कुत्रापि विमानस्योपरिकालयने एकचत्वारिंशदधिका नि त्रीणि शतानि प्रासादाः, कुत्रापि पञ्चषष्ट्यधिकानि त्रयोदश शतानि प्रासादाः, एवं भेदत्रयमेवेति" विचारसप्ततिकावचूरौ । एवं च - अन्यस्वर्गेष्वपि मूलप्रासादोन्नत्यपेक्षया । अर्द्धार्द्धमानः प्रासादपरिवारो विभाव्य
१ आदर्शानां वैचित्र्यात् भेदे नासंभवः, एवं भवने प्रासादपङ्किविषयोऽपि भेदस्तत एव सुसंभवः, अनुयोगनवमांगाद्योपांगादिवृत्त्यवलोककानां नात्र चित्रं । यद्वा विचारसप्ततौ कत्थइ कत्थईत्युल्लेखात् विविधेषु विमानेषु विविधा प्रासादपरिपाटी ।
asonal
For Private & Personal Use Only
उपकार्या - प्रासादपरिपाव्यः
२०
२५ २६
॥३१६॥
Rainelibrary.org