SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ कानागवल्लीद्राक्षादिमण्डपाः ॥९३॥ आस्थानप्रेक्षणलानालङ्कारादिगृहाण्यपि । शोभन्ते मोहनगृहाः, सुरतार्थ सुधाभुजाम् ॥ ९४॥ शिलापट्टा विभान्त्येषु, मण्डपेषु गृहेषु च । हंसक्रौञ्चादिसंस्थाना, नानारत्नविनिर्मिताः ॥ ९५ ॥ तेषु वैमानिका देवा, देव्यश्च सुखमासते । तिष्ठन्ति शेरते वैरं, विलसन्ति हसन्ति च ॥९६ ॥1 सुकृतानां प्राक्कृतानां, भूयसां भुञ्जते फलम् । शमयन्त इव प्राच्यतपःसंयम श्रमम् ॥ ९७॥ मध्येवनमथैकैक, प्रासादस्तत्र तिष्ठति । वनाधिकारी प्रत्येकं, सुरो वनसमाभिधः॥९८॥ एवमेषां विमा-16 नानां, बहिर्भागो निरूपितः। अन्तर्भागो विमानानां, यथाऽऽनायमथोच्यते ॥ ९९॥ मध्यदेशे विमानानामुप-12 कार्या विराजते । एषा च राजप्रासादावतंसकस्य पीठिका ॥ २०॥ उक्तं च-"गृहस्थानां स्मृता राज्ञामुपकार्योपकारिके"ति, परितस्तां पद्मवरवेदिका स्यादनाञ्चिता। गवाक्षजालाकृतिना, रत्नजालेन राजिता ॥ ॥१॥ तथासौ किङ्किणीजालैमणिमुक्तादिजालकैः। घण्टाजालैः स्वर्णजालैः, परिक्षिप्ताऽजजालकैः ॥२॥ चतुर्दिशं त्रिसोपानप्रतिरूपकमचला। ध्वजतोरणसच्छनातिच्छत्राख्यानि तान्यपि ॥३॥ मध्येऽस्या उपकार्याया, विमानखामिनो महान् । योजनानां शतान् पश्चोत्तुङ्गः प्रासादशेखरः ॥ ४॥ मूलप्रासादात्सम-18 न्तात्, स्युःप्रासादावतंसकाः। चत्वारो द्वे शते सार्द्ध, योजनानां समुच्छ्रिताः॥५॥ तेषां चतुर्णा प्रत्येकं, चत्वारो ये चतुर्दिशम् । प्रासादास्ते योजनानां, शतं सपादमुच्छ्रिताः॥६॥ प्रत्येकमेषां चत्वारः, प्रासादा ये चतुर्दिशम् । द्वापष्टिं ते योजनानामव्या स्युः समुच्छ्रिताः॥७॥ एषामपि परीवारप्रासादास्ते चतुर्दिशम्। Jain Educa t ional For Private & Personel Use Only ( O jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy