SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २६ ऊर्ध्वलोकसर्गे ॥ ३१५ ॥ र्यमाणानां, सौरभ्यमिव जृम्भते । घ्राणाघाणकरं पीयमानमुत्फुल्लनासिकैः ॥ ८० ॥ ततोऽपीष्टतरस्तेषां विमानानां स्वभावतः । स्वाभाविकः परिमल, पुष्णाति परमां मुदम् ॥ ८१ ॥ त्रिभिर्विशेषकं ॥ रुतबूरनवनीतशिरीषकुसुमादितः । तेषामतिमृदुः स्पर्शः, स्वाभाविकः सनातनः ॥ ८२ ॥ चतुर्दिशं विमानेभ्यस्तेभ्यः पञ्चशतोत्तराः । चत्वारो वनखण्डाः स्युर्नानावृक्षालिमण्डिताः ॥ ८३ ॥ प्राच्यामशोक विपिनं, याम्यां सप्तच्छ्दाभिधम् । प्रतीच्यां चम्पकवनमुद्गाम्रवणं तथा ॥ ८४ ॥ प्रत्येकं वनखण्डास्ते, प्राकारेण विभूषिताः । पञ्चवर्णमणितृणवरेण्यसमभूमयः ॥ ८५ ॥ सरस्यो वापिकाञ्चैषु, पुष्करिण्यश्च दीर्घिकाः । रूप्यकूलास्तपनीयतलाः सौवर्णवालुकाः ॥ ८६ ॥ जात्यासवघृतक्षीरक्षोदखादूदकाञ्चिताः । क्रीडदप्सरसां वक्तैः, पुनरुक्तीकृताम्बुजाः ||८७|| चतुर्दिशं त्रिसोपानप्रतिरूपकराजिताः । विभान्ति तोरणैश्छन्नातिच्छत्रैश्च ध्वजैरपि ॥ ८८ ॥ त्रिभिर्विशेषकं ॥ तासु तासु पुष्करिण्यादिषु भान्ति पदे पदे । क्रीडाह मण्डपाः शैला, विविधान्दोलका अपि ॥ ८९ ॥ वैमानिका यत्र देवा, देव्यश्च सुखमासते । प्रायः सदा भवधारणीयाङ्गेनारमन्ति च ॥ ९० ॥ तत्र क्रीडामण्डपादौ, हंसासनादिकान्यथ । आसनानि भान्ति तेषां भेदा द्वादश ते त्वमी ॥ ९१ ॥ हंसे १ कोंचे २ गरुडे ३ ओणय ४ पणए य ५ दीह ६ भद्दे य ७ । पकखी ८ मयरे ९ पउमे १० सीह ११ दिसासोत्थि १२ बारसमे ॥ ९२ ॥ वनखण्डेषु तेष्वेवं राजन्ते जातिमण्डपाः । यूथिकामल्लि १ वनखण्डादिषु भवधारणीयेन देवानां स्थितिरित्येवंविधस्पष्टोल्लेखाभावात् विरुद्धलेखस्यापि चाभावात् प्राय इत्युक्तिः । Jain Educationonal For Private & Personal Use Only जिनजन्मादिष्वागमनं विमानानां वर्णादि वनखण्डादि १५ २० ॥३१५॥ २४ Inelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy