________________
लोकप्रकाशे २६ ऊर्ध्व |
लोकसर्गे
॥३१४ ॥
Jain Educatio
किंचित्पुनर्विगाहते ॥ ५८ ॥ कामं कामावर्त्तमेव, कामप्रभमथापरम् । कामकान्तं कामवर्ण, कामलेश्यं ततः परम् ॥ ५९ ॥ कामध्वजं कामसीतं, कामकूटं भवेत्परम् । कामशिष्टं तथा कामोत्तरावतंसकाभिधम् ॥ ६० ॥ किंचिदेषां विमानानां मध्ये मिन्वन् विगाहते। क्रमैस्तृतीयैः षण्मास्या, किंचित्तु नावगाहते ॥ ६१ ॥ विजयं वैजयन्तं च, जयन्तमपराजितम् । विमानं किंचिदप्येषु, मिन्वन्नैवावगाहते ॥ ६२ ॥ षङ्गिर्मासैः क्रमैस्तुयैः, सचातुर्यः स निर्जरः । मानमेवं विमानानामुक्तं वैमानिकार्चितैः ॥ ६३ ॥ युग्मं ॥ तथा च तद्ग्रंथः- “अस्थि भंते । विमाणाई सोत्थियाई जाव सोत्थोत्तरवर्डिसयाई ?, हंता अत्थि, ते णं भंते ! विमाणा केमहालया प० १, गो० ! जावइयं च णं सूरिए उदेइ जावइअं च णं सूरिए अत्थमेइ एवइयाई तिन्नि उवासंतराई अत्थेगइयस्स देवस्स एगे विक्कमे सिया, से णं देवे ताए उक्किहाए तुरियाए जाव दिखाए देवगतीए विईवयमाणे २ जाब एगाहं वा दुयाहं वा उक्कोसेणं छम्मासे वीईवएज्जा, अत्थेगइयं विमाणं विश्वइज्जा, अत्थेगइयं विमानं नो विईवइज्जा," इत्यादि । कस्मिन्नमी देवलोके, विमानाः खस्तिकादयः । विजयादीन् विना सम्यगेतन्न ज्ञायतेऽधुना ॥ ६४ ॥ ननु चण्डादिगतिभिः, षण्मास्या तादृशैः क्रमैः । न केषांचिद्विमानानां पारं यान्ति सुरा यदि ॥ ६५ ॥ तद् द्रुतं जिनजन्मादिकल्याणकोत्सवार्थिनः । तस्मिन्नेव क्षणे तत्तत्स्थानमायान्त्यमी कथम् ? ॥ ६६ ॥ ( युग्मम् ) अत्रोच्यते -गतिक्रमाविमावुक्तौ, पल्योपमा दिपल्यवत् । विमानमानज्ञानाय, कल्पितौ न १ केषांचित् समवायाङ्गोकस्थित्यनुसारेण स्यात् निर्णयः, परं न यथावदित्येवमुल्लेखः ।
tional
For Private & Personal Use Only
स्वस्तिकादिविमान
मानं
२०
२५
॥ ३१४ ॥
२७
jainelibrary.org