________________
बलेरुत्पातपर्वतः। तिर्यग्लोके जिगमिषोलेरुत्पतनास्पदम् ॥५१॥तिगिञ्छिकूटतुल्योऽसौ, प्रमाणादिखरूपतः। बले प्रासादोऽस्ति तत्र, प्राग्वत् सिंहासनाञ्चितः॥५२॥ कोटय: पञ्चपञ्चाशत्, षट् कोटीना शतानि च । पञ्चविंशच लक्षाणि, पञ्चाशच सहस्रकाः॥५३॥ योजनानि व्यतिक्रम्याम्भोधावुत्पातपर्वतात् । गर्भ रत्नप्रभापृथ्व्या, गत्वाऽधो योजनानि च ॥५४॥ चत्वारिंशत्सहस्राणि, वर्तते तत्र मञ्जला । पशिचमा राजधानी, स्त्यानीभूता इव विषः ॥५५॥ अस्याश्चरमचञ्चावत्, खरूपमखिलं भवेत् । वप्रप्रासादादि तेषां, प्रमाणानुक्रमादि च ॥५६॥ अलोपपादसदसि, देवदृष्यपरिष्कृते । इन्द्रत्वेनोत्पद्यतेऽङ्गी, शय्योत्सङ्गे महातपाः॥५७॥ अस्य षष्टिः सहस्राणि, सामानिकसुधाभुजाम् । बायस्त्रिंशकदेवाश्च, त्रयस्त्रिंशदुदीरिताः॥५८॥ साम्प्रतीनास्त्वमी बेभेलकग्रामनिवासिनः। श्रद्धालवस्त्रयस्त्रिंशत्सुहृदश्च परस्परम् ॥ ५९॥ प्रागेते दृढधर्माणः, पश्चाद्विश्लथचेतसः । उत्पन्ना अत्र चमरवायस्त्रिंशकदेववत् ॥६०॥ प्रावित्तिस्रः पर्षदोऽस्य, तिसृष्वपि सुराः क्रमात्। सहस्राणां विंशतिः स्युश्चतुरष्टाधिका च सा ॥ ६१ ॥ साढ़े द्वे च शते द्वे च, सार्द्ध शतमनुक्रमात् । देव्यः16 पर्षत्सु तिसृष, देवानां क्रमतः स्थितिः॥१२॥ पल्यानां त्रितयं सार्द्ध त्रयं साई द्वयं क्रमात् । देवीनां तु स्थितिः साढे, द्वे ते द्वे सार्द्धमेव च ॥ ६३ ॥ तिस्रस्तिस्रः पर्षदोऽस्य, भवन्ति प्राग्वदेव च । सामानिकवाय. स्त्रिंशलोकपालाग्रयोषिताम् ॥ ६४॥ शुभा निशुम्भा रम्भा च, निरम्भा मदनेति च । स्युः पञ्चाग्रमहिष्योऽस्य, प्राग्वदासां परिच्छदः॥६५॥ एवं सहस्रेश्चत्वारिंशताऽन्तःपुरिकाजनैः। सुधर्माया बहिर्भुड़े, कृतताध
Jain Ed
ational
m OM
For Private 3 Personal Use Only
www.jainelibrary.org