SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ तानि षोडश षोडश । खयंभूरमणदीपे, खयंभूवारिधौ ततः॥२४॥ एकत्रिंशदेकत्रिंशदग्रिमप्रतरेषु च । स्युर्विमानानि पाड़ेयान्यधास्थैः पङ्किगैः सह ॥२५॥ स्थितान्यूज़समश्रेण्या, चरमैकैकहानितः। द्वितीयप्रस्तटस्येति, | स्वयंभूरमणाम्बुधौ ॥ २६ ॥ त्रिंशत्रिंशद्विमानानि, प्रतरेऽनुत्तरे स्वतः। भवेद्विमानमेकैक, देवद्वीपे चतुर्दिशम् ॥ २७॥ एवं पङ्किविमानानामन्तरं नियमान्मिथः । असंख्येयानीरितानि, योजनानि जिनेश्वरैः ॥२८॥ पुष्पावकीर्णानां त्वेषां, संख्येययोजनात्मकम् । केषांचित्केषांचिदसंख्येययोजनसंमितम् ॥ २९॥ विमानमिन्द्रकं यत्तु, प्रतरेष्वखिलेष्वपि । मेरोरूर्ध्वसमश्रेण्या, तदुपर्युपरिस्थितम् ॥३०॥ प्रतरेषु च सर्वेषु, स्युर्विमानाः किलेन्द्रकाः। | वृत्तास्तेभ्योऽनन्तरं च, संस्थिता ये चतुर्दिशम् ॥३१॥ ते त्रिकोणाः प्रतिपति, त्रिकोणानन्तरं पुनः । चतुरस्रा विमानाः स्युस्तेभ्यः पुनरनन्तरम् ॥ ३२॥ वृत्ता विमानास्तेभ्योऽपि, पुनस्त्र्यास्ततः पुनः । चतुरस्राः पुनर्वृत्ताः18 पङ्किरेवं समाप्यते ॥ ३३ ॥ वृत्तव्यस्रचतुरस्रा, अग्रिमप्रतरेष्वपि । ज्ञेयाः क्रमेणानेनैवानुत्तरप्रतरावधि॥ ३४ ॥ यदुक्तं-"सच्चेसु पत्थडेसु मज्झे वह अणंतरं तंसं तयणंतर चउरंसं पुणोवि वदं तओ तंसं ॥३॥" अधस्तनप्रस्तटेषु, ये ये वृत्तादयः स्थिताः। तेषामूर्ध्वसमश्रेण्या, सर्वेषु प्रतरेष्वपि ॥ ३६॥ वृत्तास्यस्राश्चतुरस्रा, विमानाः संस्थिताः समे। तत एवानुत्तराख्ये, प्रस्तटे स्युश्चतुर्दिशम् ॥ ३७॥ विमानानि त्रिकोणानि, वृत्तान्मध्यस्थितेन्द्रकात्। त्रिकोणान्येव सर्वासु, यद्भवन्तीह पतिषु ॥३८॥ यदाह-"वढं वहस्सुवरितंसं तंसस्स उप्परि होइ। चउरंसे चउरंसं उडं च विमाणसेढीओ॥३९॥" द्वाषष्टि १ रेकषष्टिश्च २, षष्टि ३ रेकोनषष्टकिः४ा तथाऽष्ट ५ सप्त ६ Jain Educat onal For Private Personal Use Only inerer og का
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy