SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २६ ऊर्ध्व लोकसर्गे ॥ ३०९ ॥ Jain Education प्राक्प्रत्यगायतावेतावुदग्दक्षिणविस्तृतौ । योजनानां कोटिकोट्योऽसंख्येया विस्तृतायतौ ॥ ८ ॥ निकाय्यभूमिकाकाराः, प्रस्तटाः स्युस्त्रयोदश । प्रायः परस्परं तुल्यविमानाद्यन्तयोस्तयोः ॥ ९ ॥ प्रत्येकमनयोर्यद्यप्येते सन्ति त्रयोदश । तथापि ह्येकवलयस्थित्या यदनयोः स्थितिः ॥१०॥ तत्तयोः समुदितयोस्त्रयोदश विवक्षिताः । अन्येष्वप्येकवलयस्थितेष्वेवं विभाव्यताम् ॥ ११ ॥ त्रयोदशानामप्येषां, मध्य एकैकमिन्द्रकम् । विमानं मौक्तिकमिव, प्रतरखस्तिकोपरि ॥ १२ ॥ उड्ड १ चन्द्रं २ च रजतं ३, वज्रं ४ वीर्यमथापरम् ५ । वरुणं ६ च तथाऽऽनन्दं ७, ब्रह्म ८ काञ्चनसंज्ञकम् ९ ॥ १३ ॥ रुचिरं १० चन्द्रसंज्ञं ११ चारुणं १२ दिशाभिधानकम् १३ । त्रयोदशेन्द्रका एते, सौधर्मेशाननाकयोः ॥ १४ ॥ सनत्कुमारमाहेन्द्रस्वर्गयोः समसंस्थयोः । द्वादश प्रस्तटाः षट् ते, ब्रह्मलोके च केवले ॥ १५ ॥ लान्तके प्रस्तटाः पञ्च, शुक्रे चत्वार एव ते । सहस्रारेऽपि चत्वारः, समश्रेणिस्थयोस्ततः ॥ १६ ॥ किलानतप्राणतयोरारणाच्युतयोरपि । चत्वारश्चत्वार एव, प्रस्तटाः परिकीर्त्तिताः ॥ १७ ॥ नव ग्रैवेयकाणां ते, पञ्चस्वनुत्तरेषु च । एको द्वाषष्टिरित्येवमूर्ध्वलोके भवन्त्यमी ॥ १८ ॥ सौधर्मेशानयोस्तत्र, प्रथमप्रस्तट स्थितात् । उडुनाम्नो विमानेन्द्राच्चतुर्दिशं विनिर्गताः ॥ १९ ॥ पतिरेकैका विमानैर्द्वाषष्ट्या शोभिता ततः । द्वितीयादिप्रस्तटेषु, ताश्चतस्रोऽपि पयः ॥ २० ॥ एकैकेन विमानेन, हीना यावदनुत्तरम् । एवं विमानमेकैकं, दिक्षु तत्रावतिष्ठते ॥ २१ ॥ पाङ्क्तेयानां विमानानामाद्यप्रतरवर्त्तिनाम् । तिर्यग्लोकानुवादेन, स्थानमेवं स्मृतं श्रुते ॥ २२ ॥ देवद्वीपे तदेकैकं, नागद्वीपे द्वयं द्वयम् । ततश्चत्वारि चत्वारि, यक्षद्वीपे जिना जगुः ॥ २३ ॥ अष्टाष्टौ भूतपाथोधौ, For Private & Personal Use Only इन्द्रकाः प्रस्तटाच १५ २० २५ ॥३०९ ॥ २७ nelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy