________________
मिवाघातो महादुषु ॥२१॥ इदमर्थतो जीवाभिगमवृत्तौ ॥ चरं ज्योतिश्चक्रमेवं, नरक्षेत्रावधि स्मृतम् । ततः परं चालोकान्तं,ज्योतिश्चक्रमवस्थितम्॥२१२॥ स्थापना। यत्र सन्ति नियताःसुधांशवस्तत्र भूरचलचारुचन्द्रिका। यत्र तीव्ररुचयः सनातनास्तत्र चातपवितानचित्रिताः॥ २१३ ॥ (रथोद्धता) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सम्पूर्णः खलु पञ्चविंशतितमः सर्गो निसर्गोजलः ॥२१४॥ इति श्रीलोकप्रकाशे ज्योतिश्चक्रवर्णनो नाम पञ्चविंशतितमः सर्गः॥ ग्रं० २५६॥
अथ ऊर्ध्वलोकनिरूपणामयः षड्रिंशः सर्गः । जीयात् शन्खेश्वरः खामी, गोखामीव नभोभुवि । गावो यस्योर्ध्वलोकेऽपि, चेरुः क्षुण्णतमोऽङ्कुराः॥१॥18 वैमानिकसुरावासशोभासंसारभासुरम् । खरूपमूव॑लोकस्य, यथाश्रुतमथ ब्रुवे ॥२॥ योजनानां नवशत्या, रुचकोर्ध्वमतिक्रमे । तिर्यग्लोकान्तः स एव, चोर्ध्वलोकादिरिष्यते ॥ ३॥ ततो न्यूनसप्तरजप्रमाणः कथितः । स च । ईषत्प्रारभारो+भागे, सिद्धक्षेत्रावधिर्मतः ॥ ४॥ तथोर्ध्वं च रुचकाघरजोरन्ते प्रतिष्ठितौ । सौधर्मेशा-1 ननामानौ, देवलोको स्फुरद्रुची ॥५॥ समश्रेण्या स्थितावर्द्धचन्द्रसंस्थानसंस्थितौ । चिन्त्येते चेत्समुदिती, तदा पूर्णेन्दुसंस्थितौ ॥ ६॥ मेरोदक्षिणतस्तत्र, सौधर्माख्यः सुरालयः। ईशानदेवलोकश्च, मेरोरुत्तरतो भवेत् ॥७॥
M
Jain Educa
t ional
For Private & Personal Use Only
I
A
niainelibrary.org