________________
॥१८२॥ एषु सूर्याश्चेन्दवच, सर्वस्तोका मिथः समाः। तेभ्यो भानि ग्रहास्तेभ्यस्ताराः सङ्ख्यगुणाःक्रमात् ॥१८३॥ एते चन्द्रादयः प्रायः, प्राणिनां प्रसवक्षणे । तत्तत्कार्योपक्रमे वा, वर्षमासाद्युपक्रमे ॥१८४ ॥ अनुकूलाः सुखं कुर्युस्तत्तद्राशिमुपागताः।प्रतिकूलाः पुनः पीडां, प्रथयन्ति प्रथीयसीम् ॥१८॥ ननु दुःखसुखानि स्युः, कायातानि देहिनाम् । ततः किमेभिश्चन्द्राद्यैरनुकूलैरुतेतरैः? ॥१८६॥ आनुकूल्यं प्रातिकूल्यमागता अप्यमी किमु ।शुभाशुभानि कर्माणि, व्यतीत्य कर्तुमीशते? ॥१८७॥ ततो मुधाऽऽस्तामपरे, निर्ग्रन्था निःस्पृहा अपि । ज्योतिःशा|स्त्रानुसारेण, मुहर्तेक्षणतत्पराः॥१८८॥ प्रव्राजनादिकृत्येषु, प्रवर्त्तन्ते शुभाशयाः।खामी मेघकुमारादिदीक्षणे तत् किमैक्षत? ॥ १८९॥ चतुर्भिः कलापकम् ॥ अत्रोच्यतेऽपरिचितश्रुतोपनिषदामयम् । अनाघातगुरुपरम्पराणां वाक्यविप्लवः ॥१९०॥ श्रूयतामन्त्र सिद्धान्तरहस्यामृतशीतलम् । अनुत्तरसुराराध्यपारम्पयोप्समुत्तरम् ॥ १९१ ॥ विपाकहेतवः पश्च, स्युः शुभाशुभकर्मणाम् । द्रव्यं क्षेत्रं च कालश्च, भावो भवश्च पञ्चमः ॥ १९२ ॥ तथोक्तम्-"उद्यक्खयखओवसमोवसमा जंच कम्मुणो भणिया।दवं खेत्तं कालं भावं च भवं च संपप्प ॥१९॥"T यथा विपच्यते सातं, द्रव्यं स्रक्चन्दनादिकम् । गृहारामादिकं क्षेत्रमनुकूलगृहादिकम् ॥१९४ ॥ वर्षावसन्तादिकं वा, कालं भावं सुखावहम् । वर्णगन्धादिकं प्राप्य, भवं देवनरादिकम् ॥१९५॥ युग्मम् ॥ विपच्यतेऽसातमपि, द्रव्यं खड्गविषादिकम् । क्षेत्रं कारादिकं कालं, प्रतिकूलगृहादिकम् ॥ १९६॥ भावमप्रशस्तवर्णगन्धस्पर्शरसादिकम् । भवं च तिर्य इनरकादिकं प्राप्येति दृश्यते ॥१९७॥ शुभानां कर्मणां तत्र, द्रव्यक्षेत्रादयः शुभाः। विपा
Jain Educ
a
tional
For Private Personel Use Only
M
ainelibrary.org