________________
॥ १३० ॥ यद्वोत्पन्ने कार्यजाते, प्रागालोचयति प्रभुः । यया स्फीतधिया संसत्, साऽभ्यन्तरा सगौरवा ॥ १३१ ॥ निर्णीतमेतदस्माभिः कृते चास्मिन्नयं गुणः । एतच्च नैव कर्त्तव्यं, दोषोऽस्मिन् विहिते ह्ययम् ॥ १३२ ॥ इत्थमालोचितं पूर्व, यया सह प्रपश्चयेत् । गुणदोषोद्भावनात्सा, मध्यमा नातिगौरवा ॥ १३३ ॥ आलोचना गौरवातु, बाह्या बाह्या भवेत्सभा । कर्त्तव्यमेतद्युष्माभिरित्याज्ञामेव साऽर्हति ॥ १३४ ॥ च्युते चन्द्रेऽथवा भानौ, यावन्नोत्पद्यतेऽपरः । तावदिन्द्रविरहिते, काले तत्स्थानक स्थितिम् ॥ १३५ ॥ सामानिकाः समुदिताश्चत्वारः पञ्च चोत्तमाः । पालयन्ति राज्यमिव, शून्यं प्रधानपुरुषाः ॥ १३६ ॥ इन्द्रशून्यश्च कालः स्याज्जघन्यः समयावधिः । उत्कर्षतश्च षण्मासानित्युक्तं सर्वदर्शिभिः ॥ १३७ ॥ तथोक्तं जीवाभिगमसूत्रे जम्बूद्वीपप्रज्ञप्तिसूत्रेऽपि - " तेसि णं भंते ! देवाणं इंदे चुए से कहमियाणिं पकरेंति ?” इत्यादि । ज्योतिष्काः पञ्चधाऽप्येते, देवाश्चन्द्रार्यमादयः । विशिष्टवस्त्राभरणकिरणोज्ज्वलभूघनाः ॥ १३८ ॥ नानानूत्नरत्नशा लिमौलिमण्डितमौलयः । सौन्दर्यलक्ष्मीकलिता, द्योतन्ते ललितद्युतः ॥ १३९ ॥ तत्र चन्द्रमसः सर्वे, प्रभामण्डलसन्निभम् । मुकुटाग्रे दधत्यङ्क, सचन्द्रमण्डलाकृतिम् ॥ १४० ॥ सूर्यास्तु चिह्नं दधति, मुकुटाग्रप्रतिष्ठितम् । विवखन्मण्डलाकारं, प्रभाया इव मण्डलम् ॥ १४९ ॥ एवं खखमण्डलानुकारिचिह्नाढ्य मौलयः । शीतोग्र भानुवज्ज्ञेया, ग्रहनक्षत्रतारकाः ॥ १४२ ॥ तथा च तत्त्वार्थ भाष्यम् - "मुकुटेषु शिरोमुक्कुटोपगृहिभिः प्रभामण्डलकल्पैरुज्वलैः सूर्यचन्द्रग्रहनक्षत्रतारामण्डलैर्यथास्वं | चिर्बिराजमाना द्युतिमन्तो ज्योतिष्का भवन्ती”ति, अत्र शिरोमुकुटोप गृहिभिरिति मुकुटाग्रभागवर्त्तिभिरिति ।
Jain Education national
For Private & Personal Use Only
५
१०
१४
jainelibrary.org