________________
लोकप्रकाशे २५ सर्गे
ज्योतिष्काः
॥३०४॥
तादृशाः सुराः । द्वे द्वे सहस्रे प्रत्याशं, सहस्राण्यष्ट तेऽखिलाः ॥ ८८ ॥ उदहन्ति च नक्षत्रविमानाँ स्तादृशाः सुराः । स्थिताः प्रत्याशमेकैकं, सहस्रप्रमिताः सदा ॥ ८९ ॥ समुद्वहन्ति प्रत्याशं, पञ्चपञ्चशताः स्थिताः । तारकाणां विमानानि, सिंहायाकृतयोऽमराः ॥ ९० ॥ सर्वेभ्यो मन्दगतयः, शशाङ्काः शीघ्रगास्ततः । तिग्मत्विषो ग्रहास्तेभ्यः ख्याताः सत्वरगामिनः ॥ ९९ ॥ विशेषस्त्वेष तत्रापि, सर्वाल्पगतयो बुधाः । तेभ्यः शुक्राः शीघ्रतरास्तेभ्योऽपि क्षितिसूनवः ॥ ९२ ॥ प्रकृष्टगतयस्तेभ्यः, सुराचार्यास्ततोऽपि हि । ख्याताः शनैश्वराः क्षिप्रगतयस्तत्त्ववेदिभिः ॥ ९३ ॥ तेभ्यस्त्वरितयायीनि, नक्षत्राणि ततोऽपि च । तारकाः क्षिप्रगतयो, निर्दिष्टाः स्पष्ट - दृष्टिभिः ॥ ९४ ॥ सर्वेभ्योऽप्येवमल्पिष्ठगतयोऽमृतभानवः । सर्वेभ्यः क्षिप्रगतयस्तारकाः परिकीर्त्तिताः ॥ ९५ ॥ जम्बूद्वीपेऽथ ताराणामेषां द्वेधा मिथोऽन्तरम् । निर्व्याघातिकमित्येकं परं व्याघातसम्भवम् ॥ ९६ ॥ तत्र मध्यस्थशैलादिव्यवधायकनिर्मितम् । व्याघातिकमन्तरं स्याद्वितीयं तु खभावजम् ॥ ९७ ॥ स्याद् द्विधैकैकमध्येतज्जघन्योत्कृष्टभेदतः । एवं चतुर्विधं ताराविमानानां मिथोऽन्तरम् ॥ ९८ ॥ तत्र च शतानि पञ्च धनुषां स्वाभाविकं जघन्यतः । उत्कर्षतो द्वे गव्यूते, जगत्स्वाभाव्यतस्तथा ॥ ९९ ॥ जघन्यतो योजनानां, सषट्षष्टि शतद्वयम् । व्याघातिकमन्तरं स्याद्भावना तत्र दर्श्यते ॥ १०० ॥ चत्वारि योजनशतान्युत्तुङ्गो निषधाचलः । कूटान्यस्योपरि पश्ञ्चशततुङ्गानि तानि च ॥ १०१ ॥ विष्कम्भायामतः पञ्च, योजनानां शतान्यधः । मध्यदेशे पुनः पञ्चसप्तत्याख्यं शतत्रयम् ॥ १०२ ॥ उपर्यर्द्धतृतीयानि, शतान्यथ स्वभावतः । विमुच्य योजनान्यष्टाष्टैतेषां
Jain Educationtional
For Private & Personal Use Only
वृषभगजाः ज्योतिष्क
गतिः तारान्तरं च
२५
॥३०४ ॥
२८
jainelibrary.org