________________
॥७२॥ अत्यन्तकमनीयौष्ठाः, कम्रेषन्ननितानना। सुलिग्घलोमातयः, पीनवृत्तकटीतटाः ॥७३॥ सुपार्धा मांसलस्कन्धाः, प्रलम्बपुच्छपेशलाः। तुल्यातितीक्ष्णशृङ्गाग्रा, नानागतिविशारदाः ॥७४॥ सपनीयोद्भतजि. हातालबो वजजिल्खुराः । स्फाटिकस्फारदशना, गम्भीरोर्जितगर्जिताः॥७५॥ सौवर्णभूषणा रत्नकिकिणीमालभारिणः । चतुःसहस्रसङ्ख्यास्तान्युगृहन्ति वृषामराः॥ ७६॥ पञ्चभिः कुलकम् ।। उदीच्यां सुप्रभाः श्वेता:, युवान: पीबरोशताः। मल्लिकापुष्पशुभ्राक्षा, साक्षात्ताक्ष्यांग्रजा इव ॥७७॥ अभ्यस्तनानागमना, जवना: |पवना इव । धावनोल्लानक्रीडाकूहनादिजितश्रमाः॥७८॥ लक्षणोपेतसर्वाङ्गा, शस्तविस्तीर्णकेसरा व्यञ्ज-18| यन्तश्चलस्पुच्छचामरेणाश्वराजताम् ॥ ७९ ॥ तपनीयखुराजिह्वातालबः स्थासकादिभिः। रम्या रसमयैर्वकललादादिषिभूषणैः॥ ८०॥ हरिमेलकगुच्छेन, मूर्ध्नि निर्मितशेखराः । हर्षहेषितहेलाभिः, पूरयन्तोऽभितोऽम्बरम् ॥ ८१॥ चत्वार्येव सहस्राणि, हयरूपभृतः सुराः । सुधांशूनां विमानानि, वहन्ति मुदिताः सदा ॥८२॥षभिः कुलकम् ॥ सूर्योदयाङ्किता प्राची, यथाऽन्यदेहिनां तथा । ज्योतिषकाणां निश्चितै, न सम्भवति यद्यपि ॥८३॥ चन्द्रादीनां तथाऽप्येषां, या दिग्गन्तुमभीप्सिता । सा प्राची स्यानिमित्तः, क्षुतादी कल्प्यते यथा ॥८४॥ ततस्तदनुसारेण, दिशोऽम्या दक्षिणादिकाः। विमानवाहिनामेव, सूक्तःप्रारदिगविनिश्चयः॥८५॥ षोडशैवं सहस्राणि, कृतसिंहादिमूर्तयः। विमानान्यमृतांशूनां, वहन्ति बिदशाः सदा ॥८६॥ अनेनैव विक्रमेण, विमानान् भाखतामपि । वहम्त्येतावन्त एव, सिंहाद्याकृतयः सुराः॥ ८७॥ वहन्ति च विमानानि, ग्रहाणां
In १ ॥ चत्वादियाङ्किता प्रागन्तुमभीसिविमानवाहित
ESTY
For Private Personal use only
rainelibrary.org