SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ 18॥ २१ ॥ बलीन्द्रदयितानामप्यतिह्यमनया दिशा । श्रावस्त्यासां पुरी सार्द्धमायुः पल्यत्रयं पुनः ॥ २२ ॥ एकै काग्रमहिष्यष्टसहस्रपरिवारयुक। सहस्राण्यष्ट देवीनां, नव्यानां रचितुं क्षमा ॥ २३ ॥ चत्वारिंशत्सहस्राणि, । स्युर्देव्यः सर्वसंख्यया । भुङ्क्तेऽसुरेन्द्रश्चैताभिः, कृतैतावत्तनुः सुखम् ॥२४॥ सोमो यमश्च वरुणस्तथा वैश्रमणाA भिधः। चत्वारोऽस्य लोकपालाश्चतुर्दिगधिकारिणः॥२५॥ चतुर्णामप्यथैतेषां, चतस्रः प्राणवल्लभाः। कनका कनकलता, चित्रगुप्ता वसुन्धरा ॥२६॥ एकैकेयं च साहस्रपरिवारविराजिता । देवी सहस्रमेकैकं, नव्यं विकवितुं क्षमा ॥ २७॥ स्वखनामराजधान्यां, खखसिंहासने स्थिताः । चत्वारोऽमी लोकपाला, भुञ्जते दिव्यसंपदम् ॥ २८ ॥ तथास्य चमरेन्द्रस्य, सप्त सैन्यानि तत्र च पादात्याश्चैभमहिषरथसंज्ञानि पञ्च वै ॥२९॥ एते सुरा अपि खामिशासनात्कार्यहेतवे । ताप्यं प्रतिपद्यन्ते, नायकोक्तेनटा इव ॥३०॥ एतानि पञ्च सैन्यानि, युद्धसज्जान्यहर्निशम् । गंधर्वनटसैन्ये ये, ते भोगायेति सप्तकम् ॥ ३१॥ सप्त सेनान्योऽप्यमीषां,सर्वदा वशवर्तिनः। सेवन्तेऽसुरनेतारं, चमरं विनयानताः ॥ ३२॥ द्रुमः १ सौदासश्च २ कुन्थु ३ लोहिताक्षश्च ४ किन्नरः ५। रिष्ठो ६ गीतरतिश्चेति ७, सेनान्यामभिधाः क्रमात् ॥ ३३॥ द्रुमस्य तत्र पादात्याधिपस्य चमरेशितुः । स्युः सप्त कच्छाः कच्छा च, स्ववशो नाकिनां गणः ॥ ३४ ॥ आद्यकच्छायां सुराणां, चतुष्पष्टिः सहस्रकाः। ततो यथोत्तरं कच्छाः , षडपि द्विगुणाः क्रमात् ॥ ३५ ॥ इन्द्राणामपरषामप्येवं पत्तिचमूपतेः । वाच्याः सप्त सप्त कच्छाः, स्थानद्विगुणिता मिथः ॥३६॥ चतुःषष्टिः सहस्राणि, प्रत्याशमात्मरक्षकाः । लक्ष Cotesecaceeeeeeeeeeeeee Jain Education For Private Personal Use Only jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy