________________
वपि, अत्र सर्वोपरि किल खातिनक्षत्रं सर्वेषामधो भरणिनक्षत्रं सर्वदक्षिणो मूलः सर्वोत्तरश्चाभीचिरित्युक्तमिति ज्ञेयम् ॥ नक्षत्रपटले सर्वान्तरङ्गमभिजिद्भवेत् । यद्यप्यभिजिदादीनि, द्वादशान्तरमण्डले ॥ २४॥ चरन्ति चारमुक्षाणि, मेरोर्दिशि तथाप्यदः। शेषैकादशनक्षत्रापेक्षयाऽन्तः प्रवर्तते ॥ २५॥ तद्वन्मूलं सर्वबायं, यद्यप्यष्टममण्डले । बहिश्चराण्युडूनि स्युर्मगशीर्षादिकानि षट् ॥ २६ ॥ तथाप्यपरबाह्यापेक्षयाऽम्भोनिधेदिशि । किञ्चिद्वहिस्ताचरति, ततस्तादृशमीरितम् ॥ २७॥ ज्योतिश्चक्रदशोपेतशतयोजनमेदुरे । नक्षत्रपटलांशो यश्चतुर्योजनमेदुरः॥२८॥ तस्योपरितले खातिर्भरणी स्यादधस्तले । एवं नक्षत्रपटलं, चिट्ठश्चतुर्भिरङ्कितम् ॥ २९॥ इदमर्थतो जम्बूद्वीपप्रज्ञप्तिवृत्तौ । चरज्योतिश्चक्रगता, अपि प्रोक्ता ध्रुवा स्थिराः तपार्श्ववर्तिनस्तारास्तानेवानुभ्रमन्ति च ॥ ३०॥ ज्योतिश्चक्रे चरन्त्यस्मिन् , ज्योतिष्काः पञ्चधा सुराः। विमानैः स्वैश्चन्द्रसूर्यग्रहनक्षत्रतारकाः॥ ३१॥ पश्चानामप्यथैतेषां, विमानान्यनुकुर्वते । संस्थानेन कपित्थस्य, फलमुत्तानमर्द्धितम् ॥ ३२॥ ननु ज्योतिर्विमानानि, कपित्था॰कृतीनि चेत् । सूर्यचन्द्रविमानानां, स्थूलानामपि तादृशाम् ॥३३॥ बाढमस्तु दूरतया, मस्तकोपरिवर्तिनाम् । वर्तुलत्वप्रतिभासोऽयोवर्तिषु जनेष्वयम् ॥ ३४ ॥ यत्कपित्थफला-1 ईस्याप्यूर्द्ध दूरं कृतस्थितेः। परभागादर्शनतो, वर्तुलत्वमवेक्ष्यते ॥ ३५ ॥ किन्तूदयास्तसमये, तिर्यक चकमणे कथम् । न तथा तानि दृश्यन्ते, तिर्यकक्षेत्रस्थितान्यपि ? ॥ ३६॥ अनोच्यते-सामस्त्येन कपित्थाईफलाकाराण्यमूनि न । किन्त्वमीषां विमानानां, पीठानि तादृशान्यथ ॥३७॥ प्रासादाश्चैतदुपरि, तथा कथंचन
Deo
Jain Educati
o
nal
For Private
Personel Use Only
ainelibrary.org