SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २५ सर्गे | ज्योतिष्काः ॥३०१ ॥ वृन्दाद्दशोपेतशतेन च भवेदिदम् ॥ १४ ॥ अत्र सङ्ग्रहणीवृत्त्यादावयं विशेष:- चत्वारि योजनानीन्दोर्गस्वा नक्षत्रमण्डलम् । चतुर्भियजनैस्तस्मादुधानां पटलं स्थितम् ॥ १५ ॥ त्रिभिश्च योजनैः शुक्रमण्डलं बुधमण्डलात् । योजनैस्त्रिभिरेतस्मात् स्याद्वाचस्पतिमण्डलम् ॥ १६ ॥ गुरूणां पटलागौममण्डलं योजनैस्त्रिभिः । त्रिभिश्च योजनै भौमात्, स्याच्छनैश्चरमण्डलम् ॥ १७ ॥ विंशत्या योजनैरेतत् स्थितं शशाङ्कमण्डलात् । नवभिर्योजनशतैः स्थितं च समभूतलात् ॥ १८ ॥ तथाऽऽह सङ्ग्रहणी - " ताररविचंदरिक्खा बुहसुक्का जीवमंगलसणीया । सगसयनउअ दस असीह चर चर कमसो तिआ चउसु ॥१९॥" जम्बूदीपप्रज्ञतिवृत्तावपि - शतानि सप्त गत्वोर्द्ध, योजनानां भुवस्तलात् । नवतिं च स्थितास्ताराः, सर्वाधस्तान्नभस्तले ॥ २० ॥ तारकापटलागत्वा, योजनानि दशोपरि । सुराणां पटलं तस्मादशीतिं शीतरोचिषाम् ॥ २१ ॥ चत्वारि तु ततो गत्वा, नक्षत्र पटलं स्थितम् । गत्वा ततोऽपि चत्वारि, बुधानां पटलं भवेत् ॥ २२ ॥ शुक्राणां च गुरूणां च भौमानां मन्दसंज्ञिनाम् । त्रीणि त्रीणि च गत्वोर्द्ध, क्रमेण पटलं स्थितम् ॥ २३ ॥ इति ॥ गन्धहस्ती त्वाह - "सूर्याणामधस्तान्मङ्गलाश्चरन्ती”ति, हरिभद्रसूरिः पुनरधस्तने भरण्यादिकं नक्षत्रमुपरितने च खात्यादिकमस्तीत्याह तथा च तडीका - "सत्तहिं नउ एहिं उप्पिं हेडिल्लो होइ तलोत्ति, भरणिमाइ जोइसपयरो भवतीत्यर्थः, तथोपरितलः स्वात्युत्तरो ज्योतिषां प्रतर इति, तत्त्वं पुनः केवलिनो विदन्तीति सङ्ग्रहणीवृत्तौ, योगशास्त्र चतुर्थप्रकाशवृत्ता १ पूर्वं पटलशब्देन स्थितेरुक्तत्वाद् अत्र सूर्यचारापेक्षेणोक्तेन पाठेन तारकादीनां चारोऽनियत इति न विरोधः । Jain Education national For Private & Personal Use Only ज्योतिष्कसमभूतल योरन्तरं 싱 ॥३०१ ॥ २५ २६ jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy