________________
लो. प्र.५१
अथ लोकप्रकाशे पञ्चविंशः सर्गः ।
॥ अथैतस्मिन्नेव तिर्यगलोके सदा प्रतिष्ठितम् । वक्ष्ये चराचरं ज्योतिश्चक्रं गुरूपदेशतः ॥ १ ॥ मेरुमध्याष्टप्रदेशस्वरूपात् समभूतलात् । सप्तोत्पत्य योजनानां शतानि नवतिं तथा ॥ २ ॥ ज्योतिश्चक्रोपक्रमः स्यादतीत्योर्द्ध ततः परम् । दशाख्यं योजनशतमेति सम्पूर्णतामिदम् ॥ ३ ॥ एकादशैकविंशानि, योजनानां शतान्यथ ज्योतिश्चक्रे भ्रमत्यर्वाकू, चक्रवालेन मेरुतः ॥ ४ ॥ तिष्ठत्यलोकतश्चार्वाग, ज्योतिश्च स्थिरात्मकम् । एकादशैयोजनानां, नन्वेकादशभिः शतैः ॥ ५ ॥ एवं तत् सर्वतो मेरोर्न्यनार्द्धरज्जुविस्तृतम् । दशाढ्यं योजनशतं स्यात् सर्वत्रापि मेदुरम् ॥ ६ ॥ अन्यान्यकाष्ठाश्रयणादावृत्ताभिर्निरन्तरम् । घटीकाभिहरन्तीभिर्जनजीवातुजीवनम् ॥ ७ ॥ लब्धात्मलाभां दिवसनिशामालां सुबिभ्रतम् । कुर्वन्तं फलनिष्पत्ति, विष्वक क्षेत्रानुसारिणीम् ॥ ८ ॥ नानारकस्थितियुतं, नरक्षेत्रोरुकूपके । कालारघहं भ्रमयन्त्यर्कचन्द्रादिधूर्वहाः ॥ ९ ॥ त्रिभिर्विशेषकम् ॥ ज्योतिश्चक्रस्यास्य तारापटलं स्यादधस्तनम् । योजनानां सप्तशत्या, सनवत्या समक्षितेः ॥ १० ॥ योजनैर्दशभिस्तस्मादूर्द्ध स्यात्सूरमण्डलम् । अष्टभिर्योजनशतैरेतच समभूतलात् ॥ ॥ ११ ॥ अशीत्या योजनैः सूरमण्डलाचन्द्रमण्डलम् । अष्टशत्या योजनानां साशीत्येदं समक्षितेः ॥ १२ ॥ नवत्या च योजनैस्तत्तारावृन्दादधस्तनात् । विंशत्या योजनैश्चन्द्रात्तारावृन्दं तथोर्द्धगम् ॥ १३ ॥ नवभिर्योजनशतैः, समक्षितेरधस्तनात् । तारा
Jain Education/lational
For Private & Personal Use Only
१०
१३
jainelibrary.org