________________
लोकप्रकाशे
२४ सर्गे नरलोकबहिर्भागे
१५
॥३०॥
गवत्थव्वा' इत्यत्र रुचकद्वीपस्याभ्यन्तराईवासिन्य” इति, एवमावश्यकवृत्त्यादिष्वपि, जम्बूद्वीपप्रज्ञप्तिवृत्तौ तु कुण्डलवरचतुर्विशत्यधिकचतुःसहस्रप्रमाणे रुचकगिरिविस्तारे द्वितीयसहस्र चतुर्दिग्वतिषु कूटेषु पूर्वादिदिक्क्रमेण पर्वतः देवाचतस्रो वसन्ती"त्युक्तमिति ज्ञेयं, अयं च रुचकद्वीपो, रुचकाब्धिपरिष्कृतः। द्वीपोऽने रुचकवरस्ताहापाथो-दिद्वीपादघिसंयुतः॥१८॥ ततोऽग्रे रुचकवरावभासद्वीप इष्यते। परिष्कृतोऽसौ रुचकवरावभासवाचिना ॥१९॥ एव-ISI यश्च मब्धिः सूर्यवरावभासोऽन्ते ततः परम् । देवद्वीपः स्थितो देववार्द्धिश्चावेष्ट्य तं स्थितः ॥२०॥ नागद्वीपस्तम-18 भितो, नागान्धिश्च ततः परम् । यक्षद्वीपस्तदग्रे च, यक्षोदवारिधिस्ततः ॥ २१॥ भूताभिधस्ततो द्वीपस्ततो भूतोदवारिधिः । स्वयंभूरमणद्वीपः, स्वयंभूरमणाम्बुधिः ॥ २२॥ अन्ते स्थितः सर्वगुरुः, क्रोडीकृत्याखिलानपि । पितामह इवोत्सङ्गक्रीडत्पुत्रपरम्परः॥२३॥ आसेवितोऽसौ जलधिर्जगत्या, वृद्धः पतिः सत्कुलभार्ययेव । बलीपिनद्धः पलितावदातस्तरङ्गलेखाधिकफच्छलेन ॥ २४ ॥ लोकं परीत्यायमलोकमाप्तमिवोत्सुको लोलतरोमिचकैः। तस्थौ च रुद्धः प्रियया जगत्या, लोकस्थितिच्छेदकलङ्कभीतेः ॥ २५॥ (इन्द्रवज्रा)तस्याः पुरस्त्वविलया वलया धनाब्धिमुख्या मिथः समुदिता उदिता दिताधैः। ये रक्षयन्ति परितोऽलमलोकसङ्गाद, रत्नप्रभां कुलवधूं स्थविरा इवोचैः ॥२६॥ (वसन्त) विश्वाश्चर्यदकीर्तिकीर्तिः सर्गः पूर्ति मियाय संप्रति ॥३०॥ चतुर्विशो निसर्गाज्वलः॥२७॥ इति श्रीलोकप्रकाशे चतुर्विशतितमः सर्गः। ग्रंथाग्रं ४२७ । १ बहिर्वर्तिनीनां चतुर्थे सहस्र अभ्यन्तरवासिनीनां तु द्वितीये सहस्रेऽवस्थानं स्यात् तदा न विरोधः ।
२५
Jan Educati
onal
For Private 3 Personal Use Only
www.jainelibrary.org
सा