SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ प्रत्येकमष्टासु दिक्षु, वज्रपाणेबिडौजसः । इन्द्राणीनां राजधान्योऽष्टानामष्टाष्ट निश्चिताः॥६३॥ तथोक्तं जिनप्रभसूरिकृते नन्दीश्वरकल्पे-"तत्र द्वयो रतिकराचलयोदक्षिणस्थयोः । शक्रस्पेशानस्य पुनरुत्तरस्थि तयोः पृथक् ॥ ६४ ॥ अष्टानां महादेवीनां, राजधान्योऽष्ट दिक्षु ताः। लक्षाबाधा लक्षमाना, जिनायतनभूराषिताः॥६५॥ सुजाता च सौमनसा, चार्चिाली प्रभाकरा । पद्मा शिवा शच्यंजने, भूता भूतावतंसिका ॥६६॥ गोस्तुपासुदर्शने अप्यमलाप्सरसौ तथा । रोहिणी नवमी चाथ, रत्ना रत्नोचयापि च ॥६७॥ सर्वरत्ना रनसंचया वसुर्वसुमित्रिका । वसुभागापि च वसुन्धरानन्दोत्तरे अपि ॥ ६८॥ नन्दोत्तरकुरुर्देवकुरुः कृष्णा ततोऽपि च । कृष्णराजीरामारामरक्षिताः प्राक्क्रमादमूः॥ ६९॥ इत्यादि । स्थापना। षोडशैवं राजधानीचैत्यानि प्राक्तने मते । मतान्तरे पुनद्वात्रिंशदेतानीति निर्णयः ॥७॥ तथाह नन्दीश्वरस्तोत्रकार:इअ वीसं बावन्नं च जिणहरे गिरिसिहरेसु संथुणिमो । इंदाणिरायहाणिसु बत्तीसं सोलस व वंदे ॥७१॥" एतत्सर्वमप्यर्थतो नन्दीश्वरस्तोत्रं सर्व सूत्रतोऽपि योगशास्त्रवृत्तावप्यस्ति । दीपोत्सवामावास्याया, आरभ्य प्रत्यमादिनम् । अपोषणं वितन्वाना, वर्ष यावनिरन्तरम् ॥ ७२ ॥ भत्त्या श्रीजिनचैत्यानां, कुर्वन्तो वन्दना-18 |चनम् । नन्दीश्वरस्तुतिस्तोत्रपाठपावितमानसाः ॥७३ ॥ भव्या नन्दीश्वरद्वीपमेवमाराधयन्ति ये । तेऽर्जय-1 न्त्यार्जवोपेताः, श्रेयसी श्रायसीं श्रियम् ॥ ७४॥ १ द्वयोवैमानिकेन्द्रयोः पोडशेन्द्राण्यःज्योतिष्कव्यन्तरेन्द्राण्योऽपि तावत्य इत्येकैकपक्षोभयपक्षयोश्च विवक्षायां न विरोधः । Jain Educa lamational For Private & Personel Use Only www.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy