________________
लोकप्रकाशे
२४ सर्गे नरलोकबहिर्भागे
राजधान्या नन्दीश्वरो दादयः
॥२९८॥
इत्थं व्यावर्णितरूपं, द्वीपं नन्दीश्वराभिधम् । तिष्ठत्यावेष्ट्य परितो, नन्दीश्वरोदवारिधिः ॥ ७॥ सुमनःसुमनोभद्रौ, सुरौ समृद्धिमत्तया । नन्दीश्वरौ तत्संबन्धि, जलमस्येत्यसौ तथा ॥ ७६ ॥ लग्नं नन्दीश्वरे द्वीपे, जलं वाऽस्येत्यसो तथा। असौ नन्दीश्वरद्वीपाद्वार्द्धिर्द्विगुण विस्तृतः ॥ ७७॥ एनमावेष्ट्य परितः, स्थितो द्वीपोऽरुणाभिधः। नन्दीश्वराब्धेर्दिगुणविष्कम्भोऽसौ निरूपितः॥७८॥ असौ निजाधीश्वरयोरशोकवीतशोकयोः। सुरयोःप्रभया रक्तकान्तिवादरुणाभिधः॥७९॥ यदैतत्पर्वतादीनां, सदज्ररत्नजन्मनाम् । प्रसरद्भिः| प्रभाजालैररुणत्वात्तथाभिधः॥ ८॥ अरुणोदाभिधो वार्द्धिरेनमावृत्त्य तिष्ठति । विस्तारतोऽरुणद्वीपद्विगुणः परतोऽप्यसौ ॥ ८१॥ सुभद्रसुमनोभद्राभिधयोरेतदीशयोः। भूषणाभाभिररुणं, जलं यस्येत्यसो तथा ॥८२॥ यद्वाऽरुणदीपपरिक्षेप्यमुष्योदकं स्फुरत् । ततोऽरुणोदाभिधानः, प्रसिद्धोऽयं पयोनिधिः ॥ ८३ ॥ एवमन्येवपि ज्ञेया, निःशेषद्वीपवार्द्धिषु । व्यासद्वैगुण्यनामार्थों, स्वामिनश्च स्वयं श्रुतात् ॥८४॥ ततोऽरुणवरो दीपस्तमप्याश्रित्य तिष्ठति । पारावारोऽरुणवरो, महाभोगीव सेवधिम् ॥ ८५॥ एनं दीपोऽरुणवरावभासः परिषेवते । आलिङ्गत्यरुणवरावभासस्तं च वारिधिः ॥८६॥ ततश्च कुण्डलद्वीपो, मेदिन्या इव कुण्डलम् । अयं त्रिप्रत्यवतारापेक्षया द्वादशो भवेत् ॥ ८७॥ स्थानाङ्गतृतीयस्थानवृत्तौ च अरुणादीनां त्रिप्रत्यवतारमनाश्रित्यायमेकादशोऽभिहितः, तथाहि-"जंबूदीवो १ धायइ २ पुक्खरदीवो ३ अ वारुणिवरो ४ य । खीरवरोवि य दीवो ५ घयवरदीवो य ६ खोदवरो ७॥८८॥ नंदीसरो अ८ अरुणो ९ अरुणोवाओ य १० कुंडल
॥२९८॥ २७
Jain Education elelonal
For Private & Personal Use Only
K
inelibrary.org