SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ न्द्रस्त्वौत्तराहेऽञ्जनाद्रौ विदधाति तम् । तल्लोकपालास्तद्वापीदध्याद्यद्विषु कुर्वते ॥ ३२ ॥ चमरेन्द्रो दाक्षिणात्याञ्जनाद्रावुत्सवं सृजेत् । तद्वाप्यन्तर्दधिमुखेष्वस्य दिक्पतयः पुनः ॥ ३३ ॥ पश्चिमेऽञ्जनशैले तु, बलीन्द्रः कुरुते महम् । तद्दिकपालास्तु तद्वाप्यन्तर्भाग्दधिमुखाद्रिषु ॥ ३४ ॥ एतत्सर्वमर्थतो जम्बूद्वीपप्रज्ञसिसूत्रेऽपि । तत्र गायन्ति गन्धर्वा, मधुरैर्नादविभ्रमैः । समानतालविविधातोद्यनिर्घोषबन्धुरैः ॥ ३५ ॥ मृदङ्गवेणुवीणादितूर्याणि संगतैः खरैः । कौशलं दर्शयन्तीव, तस्यां विबुधपर्षदि ॥ ३६ ॥ नृत्यद्देवनर्त्तकीनां, रणन्तो मणिनूपुराः । वदन्तीव निर्दयांहिपातैर्मृद्वंहिपीडनम् ॥ ३७ ॥ तासां तिर्यग भ्रमन्तीनामुच्छलन्तः स्तनोपरि । मुक्ताहारा रसावेशान्, नृत्यन्तीवाप्यचेतनाः ॥ ३८ ॥ धिद्धिधिद्विधिमिधिमिथेईथेईतिनिखनाः । तासां मुखोद्गताश्चेतः, सुखयन्ति सुधाभुजाम् ॥ ३९ ॥ पूर्व हासाप्रहासाभ्यां स्वर्णकृत् खपतीकृतः । कृत्रिमैर्विभ्रमैर्विप्रलोभ्य यः स्त्रीषु लम्पटः ॥ ४० ॥ सोऽत्र कण्ठान्निराकुर्वन्निपतन्तं बलागले । मृदङ्गं भङ्गुरग्रीवो, विलक्षोऽहासयत्सुरान् ॥४१॥ अच्युतत्रिदशीभूतप्राग्जन्मसुहृदा कृतः । नागिलेनाससम्यक्त्वः, प्राप्तेनामरपर्षदि ॥ ४२ ॥ त्रिभिर्विशेषकं ॥ जङ्घाविद्याचारणानां समुदायो महात्मनाम् । इह चैत्यनमस्यार्थं श्रद्धोत्कर्षादुपेयुषाम् ॥ ४३ ॥ ददात्युपदिशन् धर्म, युगपद्भावशालिनाम् । सज्जङ्गमस्थावरयोस्तीर्थयोः सेवनाफलम् ॥ ४४ ॥ द्वीपस्य मध्यभागेऽस्य, चतुष्के विदिशां स्थिताः । चत्वारोऽन्ये रतिकरा, गिरयः सर्वरत्नजाः ।। ४५ ।। योजनानां सहस्राणि, ते दशायतविस्तृताः । सहस्रमेकमुत्तुङ्गा, आकृत्या झल्लरीनिभाः ॥ ४३ ॥ सार्द्धे दे योजनशते, भूमग्नाः परिवेषतः । एकत्रिंशत्स Jain Educationational For Private & Personal Use Only १४ jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy