________________
नानां शतं दीघों, पञ्चाशत्तानि विस्तृतौ । योजनानि षोडशोच्चौ, त्रिभिरैमनोरमौ ॥ ८७॥ तथोक्तं जीवा-11 भिगमवृत्ती-"मुखमण्डपानां प्रत्येकं प्रत्येकं त्रिदिश-तिसृषु दिक्षु, एकैकस्यां दिशि एकैकभावेन त्रीणि द्वाराणि,” जीवाभिगमसूत्रादर्श तु 'तेसि णं मुहमंडवाणं चउद्दिसिं चत्तारि दारा पण्णत्ता' इति दृश्यते । प्रेक्षामण्डपमध्ये च, वज्ररत्नविनिर्मितः। एकैकोऽक्षाटकस्तस्य, मध्येऽस्ति मणिपीठिका ॥८८॥ योजनान्यष्ट विस्तीर्णायता चत्वारि चोच्छ्रिता । उपर्यस्याश्चेन्द्रयोग्य, सिंहासनमनुत्तरम् ॥ ८९॥ सिंहासनस्य तस्योर्चा, दुष्यं विजयनामकम् । वितानरूपं तद्रत्नवस्त्रमत्यन्त निर्मलम् ॥९०॥ मुक्तादामालम्बनाय, मध्येऽस्य वाजिकोऽङ्कुशः। तस्मिन्मुक्तादामकुम्भप्रमाणमौक्तिकाश्चितम् ॥९१ ॥ तच्च स्वार्दोच्चत्वमानैर्मुक्तादामभिरश्चितम् । चतुर्दिशमर्द्धकुम्भप्रमाणमौक्तिकान्वितैः॥९२॥ तथा चाह स्थानाङ्गे-"तेसु णं वइरामएसु अंकुसेसु चत्तारि कुंभिक्का मुत्तादामा प०, ते णं कुंभिक्का मुत्तादामा पत्तेयं पत्तेयं तदद्धच्चत्तप्पमाणमित्तेहिं चरहिं अद्धकुंभिकेहिं मुत्तादामेहिं सवतो समंता संपरिकिखत्ता," एतट्टीकापि-"कुंभो मुक्ताफलानां परिमाणतया विद्यते येषु तानि कुंभिकानि मुक्तादामानि-मुक्तामालाः, कुंभप्रमाणं च-दो असती पसई, दो पसइउ सेतिया, चत्तारि सेतियाओ कुलओ, चत्तारि कुलवा पत्थो, चत्तारि पत्था आढयं, चत्तारि आढया दोणो, सट्ठी आढयाईजहन्नो कुंभो, असीई मज्झिमो, सयमुक्कोसो'त्ति 'तदद्ध'त्ति तेषामेव मुक्तादानामर्द्धमुच्चत्वस्य प्रमाणं येषां तानि तद
१ जीवाभिगमे सूत्रस्य वृत्तेश्च भिन्नभिन्ना आदर्शाः इति स्पष्टं व्याख्याविलोककानां.
बे.प्र. ५०
Jain Education
na
For Private Personal Use Only
D
ainelibrary.org