SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Jain Educatio लम् । ततो ह्येते दधिमुखा, रौप्यशृङ्गमनोरमाः ॥ ६१ ॥ धान्यपल्यसमाकाराः, सर्वतः सदृशा इमे । उपर्यधो योजनानां सहस्राणि दशांतताः ॥ ६२ ॥ चतुःषष्टिं सहस्राणि, कीर्त्तितास्ते समुच्छ्रिताः । सहस्रं च योजनानामुद्विद्धा वसुधान्तरे ॥ ६३ ॥ तथोक्तं जीवाभिगमे - "दस जोअणसहस्साइं विकखंभेणं" श्रीसमवायाङ्गे तु — "सदेवि णं दधिमुहपवया पल्लगसंठाणसंठिया सवत्थ समा विक्खंभुस्सेहेणं चउसट्ठि जोअणसहस्साई पण्णत्त" इत्युक्तमिति ज्ञेयं ॥ पुष्करिण्यः समस्तास्तास्तेनैकैकेन भूभृता । विभान्ति प्रौढमहिला, इव क्रोडीकृतार्भकाः ॥ ६४ ॥ चतुर्णामञ्जनाद्रीणां घनाघनघनत्विषाम् । षोडशानां दधिमुखगिरीणामुपरि स्फुरत् ॥ ६५ ॥ जिनायतनमेकैकमेवं स्युः सर्वसङ्ख्यया । तृतीयाङ्गादिसिद्धान्तेपूक्तान्येतानि विंशतिः ॥ ६६ ॥ जीवाभिगमवृत्त्यादिग्रन्थेषु च निरूपिता । वापीचतुष्कान्तरेषु, द्वौ द्वौ रतिकराचलौ ॥ ६७ ॥ षोडशानां वापिकानां षोडशखन्तरेष्वमी । द्वात्रिंशद् द्विद्विभावेन, पद्मरागनिभाः समे ॥ ६८ ॥ इति प्रवचनसारोद्धारसूत्रवृत्त्यभिप्रायेण एते पद्मरागमयाः, स्थानाङ्गवृत्त्यभिप्रायेण तु सौवर्णा ईति । उपर्येकैकमेतेषां सर्वेषामपि भूभृताम् । चैत्यं नित्यार्हतां चारु, चलाचलध्वजाश्ञ्चलम् ॥ ६९ ॥ चत्वारो दधिमुखस्था, एकैकाञ्जनभूभृतः । अष्टानां च रतिकराद्रीणामष्टौ जिनालयाः ॥ ७० ॥ इत्येवमेकैकदिशि, त्रयोदश त्रयोदश । एवं संकलिताश्चैते, द्विपञ्चा १ सर्वत्र समाविष्कम्भेन उत्सेधेन चतुष्षष्टिः सहस्राणि इत्येवं व्याख्याने न विरोधः, अविभक्तिकनिर्देशो विष्कम्भशब्दस्यात्र, न चात्र 'विकुखंभुस्सेहे हिं' ति बहुवचनमस्ति येनागतिकता स्यात् । २ सुष्ठुवर्णमया इत्यर्थकत्वेन विरोधः, यद्वा पद्मरागो रक्तः सुवर्णं च रक्तमपि स्यात् । rational For Private & Personal Use Only १० १२ www.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy