SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २४ सर्गे नरलोकब - हिर्भागे ॥ २९३ ॥ Jain Education च सुदर्शना । स्युर्वाप्यो देवरमणात्पूर्वादिदिचतुष्टये ॥ ४७ ॥ नन्दोत्तरा तथा नन्दा, सुनन्दा नन्दिवर्द्धना । पुष्करिण्यश्चतस्रः स्युर्नित्योद्योताश्चतुर्दिशम् ||४८|| भद्रा विशाला कुमुदा, चतुर्थी पुण्डरीकिणी । स्वयंप्रभगिरेः पूर्वादिषु दिविति वापिकाः ॥ ४९ ॥ विजया वैजयन्ती च, जयन्ती चापराजिता । वाप्यः प्राच्यादिषु दिक्षु, रमणीयाञ्जनागिरेः ॥ ५० ॥ अयं नन्दीश्वरस्तवनन्दीश्वरकल्पाभिप्रायेण षोडशानामपि पुष्करिणीनां नामक्रमः, स्थानाङ्गजीवाभिगमाभिप्रायेण त्वेवं-नन्दोत्तरा तथा नंदा, चानन्दा नन्दिवर्द्धना । चतुर्दिशं पुष्करिण्यः, | पौरस्त्यस्याञ्जनागिरेः ॥ ५१ ॥ भद्रा विशाला कुमुदा, चतुर्थी पुण्डरीकिणी । चतुर्दिशं पुष्करिण्यो, दाक्षि| णात्याञ्जना गिरेः ॥ ५२ ॥ नन्दिषेणा तथाऽमोघा, गोस्तूपा च सुदर्शना । चतुर्दिशं पुष्करिण्यः, प्रतीचीनाजागिरेः ॥ ५३ ॥ उदीच्ये तूभयोरपि मतयोस्तुल्यमेव ॥ एकैकस्याः पुष्करिण्या, व्यतीत्य दिकूचतुष्टये । | योजनानां पञ्च शतान्येकैकमस्ति काननम् ॥ ५४ ॥ अस्त्यशोकवनं प्राच्यां, सप्तपर्णवनं ततः । याम्यां प्रत्यक् चम्पकानामथाश्राणामुद्ग वनम् ॥ ५५ ॥ योजनानां लक्षमेकमायतान्यखिलान्यपि । शतानि पञ्च पृथुलान्यद्भुतान्यद्भुतश्रिया ॥ ५६ ॥ सच्छायैः सुमनोरम्यैर्महा स्कन्धैः समुन्नतैः । विभान्ति तरुभिस्तानि, कुलानीव नरोत्तमैः ॥ ५७ ॥ सौरभ्याकृष्टमधुपा, लीलान र्त्तितपल्लवाः । उद्बुद्धकुसुमास्तेषु, लताः पण्याङ्गना इव ॥ ५८ ॥ तेषां कुञ्जेषु निश्छिद्रपरिच्छदाद्रिभित्तिषु । न विशन्तीशगेहेषु, चौरा इव करा रवेः ॥ ५९ ॥ षोडशानामप्यमूषां वापि कानां किलोदरे । स्यादेकैको दधिमुखः, स्फारस्फटिकरत्नजः ॥ ६० ॥ मुखं शिखरमेतेषां यतो दधिवदुजव For Private & Personal Use Only पुष्करिण्यः दधिमुखा श्र २० २५ ॥ २९३ ॥ २७ inelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy