________________
Jain Educatio
लभ्यते ॥ ३४ ॥ दशमो योजनस्यांशो, भाज्यभाजकसाम्यतः । क्षयवृद्धौ मानमेतत् स्यादारोहवरोहयोः ॥ ३५ ॥ एकत्रिंशत्सहस्राणि योजनानां शतानि षट् । त्रयोविंशानि परिधिर्भवत्येषां महीतले ॥ ३६ ॥ योजनानां सहस्राणि त्रीणि द्वाषष्टियुक शतम् । साधिकं मूर्ध्नि परिधिः प्रज्ञप्तः परमर्षिभिः ॥ ३७ ॥ अथैषामञ्जनाद्रीणां, प्रत्येकं च चतुर्दिशि । गते लक्षे योजनानां, लक्षमायतविस्तृताः ॥ ३८ ॥ पुष्करिण्यश्चतस्रः स्युरुद्विद्धा दशयोजनीम् । निर्मत्स्यस्वच्छसलिलोल्लसत्कल्लोलवेल्लिताः ॥ ४० ॥ जीवाभिगमसूत्रवृत्तौ प्रवचनसारोद्धारवृत्तौ च एता दर्शयोजनोद्विद्धा उक्ताः, नन्दीश्वरस्तोत्रे नन्दीश्वरकल्पे च सहस्रयोजनोद्विद्धा उक्ताः, स्थानाङ्गसूत्रेऽपि - 'ताओ णं णंदाओ पुकखरणीओ एगं जोअणसय सहस्त्रं आयामेणं पन्नासं जोअणसहस्साइं विक्रखंभेणं दस जोअणसयाई उबेहेणं' इत्युक्तमिति ज्ञेयं । चतुर्द्दिशं त्रिसोपानप्रतिरूपकबन्धुराः । चतुर्द्दिशं च प्रत्येकं, रम्यास्ते रत्नतोरणैः ॥ ४१ ॥ दुलच्छतदलश्रेणिगलन्मरन्दलेपतः । अन्योऽन्यमितरभ्रान्ति| भ्रमद्भुङ्गतदङ्गनाः ॥ ४२ ॥ अनरालैर्मरालात्तैर्मृणालैर्ललितान्तराः । आमुक्तव्यक्तशृङ्गारहारैरिव मनोहराः ॥ ४३ ॥ | सोपानावतरत्वः स्त्रीनूपुरध्वनिबोधितैः । मरालैर्मधुरध्वानैर्मुदोपवीणिता इव ॥ ४४ ॥ क्रीडद्दिव्याङ्गनोत्तुङ्गवक्षोजास्फालनोर्जितैः । आत्तरङ्गैः सत्तरङ्गैरिवाङ्गीकृतताण्डवाः ॥ ४५ ॥ अर्हदर्चार्चनोद्युक्तलातखः स्त्रीस्तनच्युतैः । कस्तूरीचन्द्रघुसृणैः, शोभन्ते चित्रिता इव ॥ ४६ ॥ षङ्गिः कुलकं ॥ नन्दिषेणा तथाऽमोघा, गोस्तूपा १ आयामविष्कम्भावपेक्ष्य पुष्करिणीनां दशशतोद्वेधयोग्यतेति अध्याहार्यो दशशब्दात् शतशब्दः, ततो न विरोधः केषामपि ।
ational
For Private & Personal Use Only
१०
१३
Jainelibrary.org