________________
विष्कम्भः परिकीर्त्तितः ॥ ८ ॥ अथ नन्दीश्वरो द्वीपः क्षोदोदाम्भोनिधेः परः । प्ररूपितो विष्टपेष्टैरष्टमः कष्टमर्द्दिभिः ॥ ९ ॥ मधुरेक्षुरसखादूदकेषु दीर्घिकादिषु । जलाश्रयेषु फुल्लाज मकरन्दसुगन्धिषु ॥ १० ॥ स्फुरत्पुष्पफलोद्दामाभिरामद्रुमशालिषु । अत्रोत्पातपर्वतेषु, सर्वरत्नमयेषु च ॥ ११ ॥ आसते शेरते खैरं, क्रीडन्ति व्यन्तरामराः । व्यन्तरीभिः सह प्राच्यपुण्यानां भुञ्जते फलम् ॥ १२ ॥ इहत्यमाधिपत्यं द्वौ, कैलासहरिया - हनौ । धत्तः समृद्धौ देवौ द्योः, सूर्याचन्द्रमसाविव ॥ १३ ॥ एवं नन्या समृद्ध्याऽसावीश्वरः स्फातिमानिति । नन्दीश्वर इति ख्यातो द्वीपोऽयं सार्थकाभिधः ॥ १४ ॥ त्रिषष्ट्या कोटिभिर्युक्तमेकं कोटिशतं किल । लक्षैचतुरशीत्याढ्यमेतद्वलयविस्तृतिः ॥ १५ ॥ द्वीपस्यास्य बहुमध्ये, शोभन्ते दिकचतुष्टये । जात्याञ्जनरत्नमयाश्चत्वारोऽञ्जनपर्वताः ॥ १६ ॥ पूर्वस्यां देवरमणो, नित्योद्योत स्वयंप्रभौ । क्रमादपाकप्रतीच्यां चोदीच्यां च रमणीयकः ॥ १७ ॥ वर्णशोभां वर्णयामः, किमेतेषां स्फुरदुचाम् ? | नाम्नैव ये खमौज्वल्यं, प्रथयन्ति यथास्थितम् ॥ १८ ॥ स्फुरद्गवलसब्रह्मचारितेजोभिरास्तृतैः । तेऽमुं द्वीपं सृजन्तीव, कस्तूरीद्रवमण्डितम् ॥ १९ ॥ खच्छगोपुच्छसंस्थानस्थिता रजोमलोज्झिताः । अभ्रङ्कपोत्तुङ्गशृङ्गा, सृष्टा: श्लक्ष्णाः प्रभाखराः ॥ २० ॥ सहस्रांश्चतुरशीति, भूतलात्ते समुच्छ्रिताः । सहस्रं च योजनानामवगाढा भुवोऽन्तरे ॥ २१ ॥ योजनानां सहस्राणि, पृथवो भूतले दश । योजनानां सहस्रं च, विस्तीर्णास्ते शिरस्तले ॥ २२ ॥ मतान्तरे शतान्येते, चतुर्णवतिमानताः । स्युर्भूतले योजनानां सहस्रं मूर्ध्नि विस्तृताः ॥ २३ ॥ चतुर्भिः कलापकं ॥ तथोक्तं स्थानाङ्गवृत्तौ - इहाञ्जनका
Jain Educatmational
For Private & Personal Use Only
१०
१४
ww.jainelibrary.org