________________
त्पयोनिधेः । क्षीरोपमं जलं वाप्यादिषु यस्येत्यसौ तथा ७८ ॥ पुण्डरीकपुष्पदन्तौ, यद्वा क्षीरोज्वलौ सुरौ । अत्रेति तत्खामिकत्वात्, ख्यातः क्षीरवराभिधः॥७९॥ विष्कम्भोऽस्य योजनानां, द्वे कोट्यौ चक्रवालतः। षट्पञ्चाशल्लक्षयुक्ते, परिधिश्चिन्त्यतां स्वयम् ॥ ८०॥ ततः क्षीरवरद्वीपात्परं क्षीरोदवारिधिः । कर्पूरपूरडि-2 ण्डीरपिण्डडम्बरपाण्डुरः॥८१॥ त्रिभागावर्तितचतुर्भागसच्छर्करान्वितम् ।स्वादनीयं दीपनीयं, मदनीयं वपुष्मताम् ॥ ८२॥ बृंहणीयं च सर्वाङ्गेन्द्रियालादकरं परम् । वर्णगन्धरसस्पर्शसंपन्नमतिपेशलम् ॥ ८३ ॥ ईदृग् यच्चक्रिगोक्षीरं, तस्मादपि मनोहरम् । अस्य स्वादूदकमिति, क्षीरोदः प्रथितोऽम्बुधिः॥८४॥ तथा च जीवाभिगमसूत्रे-"खंडमच्छंडिओववेए रणोचाउरंतचक्कवहिस्से"त्यादि।क्षीरोज्वलाङ्गविमलविमलप्रभदेवयोः संबन्धि सलिलं ह्यस्येत्यपि क्षीरोदवारिधिः॥८५॥ जिनजन्मादिषु कृतार्थोदकत्वादिवोल्लसन् । समीरलहरीसंगरङ्गत्कल्लोलकैतवात् ॥८६॥ गुरुश्रीकीर्तिविजययशोभिस्तुलितो बुधैः । इत्युद्भूताद्भुतानन्दाद, द्विगुणश्चैत्यवानिव ॥८॥ जिनलानार्थकलशैरलङ्कृततटद्वयः । गुरुः शुश्रूषुभिः शिष्यैरिव स्वच्छामृतार्थिभिः ॥ ८८॥ दिव्यकुम्भेवाहरत्सु, प्रणम्य शिरसोदकम् । लोलकल्लोलनिनदैरनुज्ञां वितरन्निव ॥ ८९॥ समन्ततस्तटोद्भिन्नचलद्वद्वददन्तुरः। ताटङ्कः इव मेदिन्याः, स्फुरन्मौक्तिकपतिकः ॥ ९० ॥ लोलकल्लोलसंघद्दोच्छलच्छीकरकैतवात् । सिद्धान्नभोगतान् मुक्ताकणैरव किरन्निव ॥९१ ॥ धृतो निर्णिज्य विधिनातपाय स्थिरभास्वताम् । शोभतेऽसौ मध्यलोकनिचोलक इवोज्ज्वलः ॥९२॥ सप्तभिः कुलकं ॥ अस्य द्वादशलक्षाख्या, विष्कम्भः पञ्च कोटयः।
"प्रणम्य शिरसोदकम् । रमौक्तिकपलिका या विधिनातपाय स्थिर
Jain Educ
tion
For Private Personal Use Only
N
w
.jainelibrary.org