________________
लोकप्रकाशे
२४ सर्गे
नरलोकब -
हिर्भागे
॥२९० ॥
Jain Education
असङ्ख्या आवयंभूरमणालक्षयोजनान्तरिताभिः पंक्तिभिस्तिष्ठन्ती”ति, तथा परिशिष्टपर्वण्यपि श्रीहेमचन्द्रसूरिभिः परिरयश्रेणिरेवोपमिता, तथाहि राजगृहवप्रवर्णने - "तत्र राजतसौवर्णैः, प्राकारः कपिशी|र्षकैः । भाति चन्द्रांशुमद्विम्बैमन्योत्तर इवाचलः ॥ १ ॥” इति श्रीपरिरयश्रेणिः ॥ स्थापना
परतः पुष्करदी पात्पुष्करोदः पयोनिधिः । समन्ततो द्वीपमेनमवगृह्य प्रतिष्ठितः ॥ ६६ ॥ अतिपथ्यमतिस्वच्छं, जात्यं लघु मनोरमम् । स्फुटस्फटिकरत्नाभमस्य वारि सुधोपमम् ॥ ६७ ॥ सदा सपरिवाराभ्यां भासुराभ्यां महौजसा । श्रीधर श्रीप्रभाभिख्यदेवताभ्यामहर्निशम् ॥ ६८ ॥ इन्द्वर्काभ्यां पुष्करवद्विभात्यस्योदकं यतः । पुष्करोदस्तत एष भुवि ख्यातः पयोनिधिः ॥ ६९ ॥ अस्य योजनलक्षाणि, द्वात्रिंशचक्रवालतः । विस्तारः परिधिस्त्वस्य, भाव्यो व्यासानुसारतः ॥ ७० ॥ परतः पुष्कराम्भोधेद्वीपोऽस्ति वारुणीवरः । सद्वारुणीव वाप्यादौ, जलमस्येत्यसौ तथा ॥ ७१ ॥ देवौ द्वावत्र वरुणवरुणप्रभसंज्ञितौ । तत्स्वामिकत्वाद्वरुणवरोऽ| प्येष निगद्यते ॥ ७२ ॥ चतुःषष्टियजनानां लक्षाणि चैष विस्तृतः । चक्रवालतया ज्ञेयः, परिधिस्त्वस्य पूर्ववत् ॥ ७३ ॥ वारुणीवरोदनामा, दीपादस्मात्परोऽम्बुधिः । मदकारिवराखादोदकप्राग्भारभासुरः ॥ ७४ ॥ सुजातपरमद्रव्यसम्मिश्रमदिरारसात् । अतिखादूदूकयोगात् ख्यातोऽयं तादृशाभिधः ॥ ७५ ॥ वारुणिवा - रुणकान्तस्वामिकयोगतोऽथवा । स्याद्वारुणवरोदाख्यो, वरुणोदोऽप्ययं भवेत् ॥ ७६ ॥ एका योजनकोट्यष्टा| विंशत्या लक्षकैः सह । चक्रवालतयैतस्य, विस्तारो निश्चितो बुधैः ॥ ७७ ॥ अथ क्षीरवरो द्वीपः, परतोऽस्मा
tional
For Private & Personal Use Only
परिरयणिः पुष्क
रोदादयः
२०
२५ ॥ २९० ॥
२८
Jainelibrary.org