________________
॥ अथ चतुर्विंशतितमः सर्गः प्रारभ्यते ॥ HI परस्मिन् पुष्करादे॒ऽथ, मानुषोत्तरशैलतः । परतः स्थिरचन्द्रार्कव्यवस्था प्रतिपाद्यते ॥१॥ द्वीपार्णवेषु
सर्वेषु, मानुषोत्तरतः परम् । ज्योतिष्काः पञ्चधापि स्युः, स्थिराश्चन्द्रार्यमादयः ॥२॥ स्थिरत्वादेव नक्षत्र-18
योगोऽप्येषामवस्थितः। चन्द्राः सदाऽभिजिद्युक्ताः, सूर्याः पुष्यसमन्विताः॥३॥ तथोक्तं जीवाभिगमसूत्रेASI“पहियाउ माणुसनगस्स चंदासूराणऽवट्ठिया जोगा। चंदा अभीइजुत्ता सूरा पुण होंति पुस्सेहिं ॥ ४॥"
गिरिकूटावस्थितानामेतेषामन्तरं द्विधा । तद्रवीन्द्रोरेकमन्यदिन्द्वोस्तथाऽर्कयोर्मिथः ॥५॥ योजनानां सह
स्राणि, पञ्चाशत्तत्र चादिमम् । द्वितीयं तु योजनानां, लक्षं साधिकमन्तरम् ॥ ६॥ इदमर्थतो जीवाभिगम-15 । सूत्रचन्द्रप्रज्ञप्तिसूत्रादिषु । साधिकत्वं तु पूर्वोक्तं, चन्द्रार्कान्तरमीलने । तन्मध्यवर्तिसूर्येदुबिम्बविष्कम्भयोगतः॥७॥ तथोक्तं-ससिससि रविरवि साहिय जोअणलक्खेण अंतरं होइ' इति । शशिनाऽन्तरितो भानुर्भानुनाऽन्तरितः शशी। राकानिशान्तवच्चित्रान्तरास्ते चन्द्रिकातपैः॥८॥ तत एव चित्रलेश्याः, शैत्य ष्ण्यादन्तरान्तरा । वारिग्मनो वाक्यसंदर्भा, इवानुनयकाटिणः ॥९॥ चन्द्रास्तत्र सुखलेश्या, नात्यन्तं शीतलत्विषः । मनुष्यलोके शीतर्तुभाविपीयूषभानुवत् ॥ १०॥ भानवोऽपि मन्दलेश्या, न त्वतीवोष्ण-
१२
Jan Education
a
For Private Personel Use Only
Linelibrary.org
HOM