SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ चतुश्चत्वारिंशतव, षट्याख्यैः सप्तभिः शतैः । अर्चयामो जिनार्चानामूर्द्धलोके सुरार्चिताः ॥२॥ लक्षाणि || सप्तपञ्चाशदित्येवमष्ट कोटयः । त्रैलोक्ये नित्यचैत्यानां, सद्भ्यशीति शतद्वयम् ॥३॥ कोटीशतानीह पञ्चदशोपरि च कोटयः । द्विचत्वारिंशदेवाष्टपञ्चाशल्लक्षसंयुताः ॥४॥ सहस्राणि च षट्त्रिंशत्साशीतीनि जगत्रये । नौमि नित्यजिनार्चानां, करवै सफलं जनुः ॥५॥ उत्सेधाङ्गुलनिष्पन्नसप्तहस्तमिताः खलु । शाश्वत्यः प्रतिमा जैन्य, ऊोधोलोकयोमताः॥६॥ तिर्यग्लोके तु निखिलास्ताः पञ्चभिर्धनुःशतैः । मिता निरूपितास्तत्त्वपरिच्छेदपयोधिभिः॥७॥ तथाहुः-"उस्सेहमंगुलेणं अहउड्डमसेससत्तरयणीओ । तिरिलोए पणधणुसय सासयपडिमा पणिवयामि ॥८॥" राजप्रश्नीयोपाङ्गवृत्तौ सूर्याभविमाने तु-'जिणुस्सेहपमाणमेत्ताओ संपलियंकनिसन्नाओ' अस्य व्याख्याने जिनोत्सेधप्रमाणमात्राः, जिनोत्सेध उत्कर्षतः पञ्च धनु:शतानि, जघन्यतः सप्त हस्ताः, इह तु पश्च धनुःशतानि संभाव्यते इत्युक्तमिति ज्ञेयं । वैमानिकविमानेषु, द्वीपे नन्दीश्वरेऽपि च । कुण्डले रुचकद्वीपे, प्रासादा ये स्युरहताम् ॥९॥ योजनानां शतं दीर्घाः, पञ्चाशतं च विस्तृताः। उत्तुङ्गाः कथिताः प्राज्ञैर्योजनानां द्विसप्ततिम् ॥१०॥ देवकुरूत्तरकुरुसुमेरुकाननेषु च । वक्षस्कारभूधरेषु, गजदन्ताचलेष्वपि ॥११॥ इषुकाराद्रिषु वर्षधरेषु मानुषोत्तरे । असुराणां निवासेषु, ये १ शिष्यते-विशिष्यते इति शेषा-उत्कृष्टा न तथा अशेषा इति व्याख्याने न विरोधः, तिर्यग्लोके तु एक एव पक्षः पञ्चधनुःशतात्मकः । Jain Educat i onal For Private & Personel Use Only (Omjainelibrary.org MIL
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy