SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ समु० जाव वासुदेवा, ” इत्युक्तमिति ज्ञेयं । स्यान्निधीनां पञ्चदशशती त्रिंशाऽत्र सत्तया । जघन्यतञ्चक्रिभोग्यं, तेषां शतमशीतियुक् ॥ ४२ ॥ उत्कर्षतश्चक्रिभोग्यनिधीनां पुनरेकदा । पञ्चशताधिकानीह, स्युः शतानि त्रयोदश ॥ ४३ ॥ उत्कर्षतोऽत्र रत्नानां, स्युः शतान्येकविंशतिः । जघन्यतः पुनस्तेषां द्विशत्यशीतिसंयुता ॥ ४४ ॥ पञ्चाक्षैकाक्षरत्नानां, चत्वारिंशं शतं भवेत् । जघन्येनोत्कर्षतश्च सपञ्चाशं सहस्रकम् ॥ ४५ ॥ शतं सप्तत्या समेतं, चक्रिजेतव्यभूमयः । भरताद्या देशक्षेत्री, विजयाः षष्टियुक शतम् ॥ ४३ ॥ आभियोगिकविद्याभृच्छ्रेणीनां सर्व संख्यया । साशीतीनि षट् शतानि, विद्याभृतां पुराणि च ॥ ४७ ॥ अष्टादश सहस्राणि, शतानि सप्त चोपरि । अयोध्यादिराजधान्यः, शतं सप्ततिसंयुतम् ॥ ४८ ॥ द्वे पङ्की इह चन्द्राणां द्वे च पङ्की विवखताम् । एकैकान्तरिता एवं चतस्र इह पङ्कयः ॥ ४९ ॥ प्रतिपति च षट्षष्टिसंख्याकाः शशिभास्कराः । सूचीश्रेण्या स्थिता जम्बूद्वीपेन्दुरविभिः समम् ॥ ५० ॥ एवं पञ्चतस्रोऽपि पर्यटन्ति दिवानिशम् । मृगयन्त्य इवाशेषवञ्चकं कॉलतस्करम् ॥ ५१ ॥ द्वात्रिंशं शतमित्येवं, नरक्षेत्रे हिमांशवः । द्वात्रिंशं शतमर्काश्व, शोभन्तेऽदनतेजसः ॥ ५२ ॥ नक्षत्राणां पतयश्च षट्पञ्चाशद्भवेदिह । प्रतिपति च षट्षष्टिः, षट्षष्टिः स्युरुडून्यपि ॥ ५३ ॥ जम्बूद्वीपस्थतत्तद्वैः पङ्कया चरन्त्यमून्यपि । जम्बूद्वीपग्रहै: पङ्ख्या, चरन्त्येवं ग्रहा अपि ॥ ५४ ॥ ग्रहाणां पतयश्चात्र, षट्सप्तत्यधिकं शतम् । प्रतिपङ्क्ति च षट्षष्टिः, षट्१ भिन्नकालापेक्षयैतत् प्राक्तनं त्वेककालापेक्षमिति न विरुद्धता, मूलागम एवं विदेहेषु चक्रिकालासंभविवासुदेव चतुष्कोक्तेः । Jain Educationtional For Private & Personal Use Only १० १३. ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy