SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Jain Education व्यपेक्षया । पश्चिमा विपर्यासो, धातकीखडवत् स तु ॥ ५९ ॥ अष्टाप्येते गजदन्ता, नीलवन्निषधान्तिके । सहस्रद्वयविस्तीर्णाः, सूक्ष्माश्च मन्दरान्तिके ||२०|| विदेहमध्य विष्कम्भान्मेख्या से विशोधिते । शेषेऽर्द्धिते च विष्कम्भः, प्रत्येतव्यः कुरुद्वये ॥ ६१ ॥ लक्षाः सप्तदश सप्त, सहस्राणि शतानि च । चतुर्दशानि सप्तैव, योजनानां | लवाष्टकम् ॥ ६२ ॥ मेरुयुक्तभद्रसालायामात्प्रागुपदर्शितात् । गजदन्तद्वयहीनाच्छेषं जीवा कुरुद्वये ॥ ६३ ॥ लक्षाश्चतस्रः षट्त्रिंशत्, सहस्राणि शतानि च । नवैव षोडशाढ्या नि, योजनानीति तन्मितिः ॥६४॥ आयाममानयोः प्राच्यप्रतीच्य गजदन्तयोः । योगे भवेद्धनुःपृष्ठं, कुरुदय इदं तु तत् ॥ ६५ ॥ लक्षाः षट्त्रिंशदेकोनसप्ततिश्च सहस्रकाः । शतत्रयं योजनानां पञ्चत्रिंशत्समन्वितम् ॥ ६६ ॥ धातकीखण्डवदिहाप्यग्रतो नीलवगिरेः । यमकावुदक्कुरुषु, सहस्रं विस्तृतायतौ ॥ ६७ ॥ ततः परं हृदाः पञ्च, स्युर्दक्षिणोत्तरायताः । सहस्रांश्चतुरो दीर्घा, सहस्रे च विस्तृताः ॥ ६८ ॥ नीलवतो यमकयोस्ताभ्यामाद्यहृदस्य च । मिथो हृदानां क्षेत्रान्तसीनश्च पञ्चमहू-दात् ॥ ६९ ॥ सप्ताप्येतान्यन्तराणि, तुल्यान्यैकैकं पुनः । लक्षद्वयं योजनानां चत्वारिंशत्सहस्रकाः ॥ ७० ॥ शतानि नव चैकोनषष्टीनि योजनस्य च । सप्तक्षुण्णस्यैकभागस्तत्रोपपत्तिरुच्यते ॥ ७१ ॥ दैर्ध्य हृदानां पञ्चानां, यत्सहस्राणि विंशतिः। सहस्रयमकन्यासयुक्तं तत्कुरुविस्तृतेः॥७२॥ विशोध्यतेऽथ यच्छेषं, तत्सप्तभिर्विभज्यते । सप्तानां व्यवधानानामेवं मानं यथोदितम् ॥ ७३ ॥ उदक्कुरुषु पूर्वार्द्ध, पद्मनामा महातरुः । पश्चिमार्द्धे महापद्मस्तौ जम्बूवृक्षसोदरौ ॥७४॥ पद्मनाम्नो भूमिरुहः, पद्मनामा सुरः पतिः । महापद्मस्य तु खामी, पुण्डरीकः tional For Private & Personal Use Only १० १४ ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy