SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Jain Educatio पुंडरीकदवान् रुक्मि पर्वतः ॥ २८ ॥ एतद्भवा रूप्यकूला, हैरण्यवतगामिनी । रम्यकान्तर्नरकान्ता, प्रयात्येतत्समुद्भवा ॥ २९ ॥ ततोऽर्वाग् रम्यकक्षेत्रं, माल्यवद्वृत्तभूधरम् । केसरिहवन्नीलवन्नामा पर्वतस्ततः ॥ ३० ॥ प्रवर्त्तते विदेहान्तः, शीतैतन्नगसंम्भवा । नारीकान्ता रम्यान्तः, प्रसर्पत्येतदुद्गता ॥ ३१ ॥ एषु क्षेत्रेषु पूर्वाद्वन्नयो या पूर्वसंमुखाः । ता मानुषोत्तरं यान्ति, कालोदं पश्चिमामुखाः ॥ ३२ ॥ पश्चिमार्द्धात्तु कालोदं, प्रयान्ति पूर्वसंमुखाः । पश्चिमाभिमुखास्तास्तु, प्रयान्ति मानुषोत्तरम् ॥ ३३ ॥ मध्ये क्षेत्रं विदेहाख्यं, नीलवन्निषधागयोः । एकैकं मेरुणोपेतं, भाति पूर्वापरार्द्धयोः ॥ ३४ ॥ अष्टाचत्वारिंशदंशान्, लक्षाः षड्विंशतिं मुखे । योजनान्येकषष्टिं सहस्रान् साष्टशतं ततम् ।। ३५ ।। २६६११०८ ९ ४८ । तथा लक्षाश्चतुस्त्रिंशद्योजनानां समन्विताः । चतुर्विंशत्या सहस्रैरष्टाविंशं शताष्टकम् ॥ ३६ ॥ षोडशांशाच विस्तीर्ण, मध्ये तस्य च विस्तृतिः । लक्षाण्यथैकचत्वारिंशदष्टाशीतिरेव च ॥ ३७ ॥ सहस्राणि सप्तचत्वारिंशा पञ्चशती तथा । योजनानामंशशतं, पण्णवत्या समन्वितम् ॥ ३८ ॥ सहस्राणि योजनानामेकोनविंशतिस्तथा । सचतुर्नवतिः सप्तशती कोशस्तथोपरि ॥ ३९ ॥ विष्कम्भः प्रतिविजयं, प्रत्येकमर्द्धयोर्द्वयोः । योजनानां द्वे सहस्रे, वक्षस्काराद्रिविस्तृतिः ॥ ४० ॥ प्रत्येकमन्तर्नद्यश्च शतानि पञ्च विस्तृताः । खरूपं सर्वमत्रान्यद्धातकीखण्डवद्भवेत् ॥ ४१ ॥ अष्टानां वनमुखानां, विस्तृतिः स्याल्लघीयसी । एकोनविंशतिभवाश्चत्वारो योजनांशकाः ॥ ४२ ॥ एकादश सहस्राणि योजनानां शतानि षट् । साष्टाशीतीनि चैतेषां विस्तृतिः स्याद्गरीयसी ॥ ४३ ॥ उपवर्षधरं गुर्वी, ational For Private & Personal Use Only ५ १० १४ jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy