SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Jain Educat लक्षाण्यष्टौ स चायतः । घातकीखण्डचैता व्यवच्छेषं त्विह भाव्यताम् ॥ ६६ ॥ अन्येऽपि दीर्घवेताढ्याः, स्युः सप्तषष्टिदृशाः । भरतेरवृत क्षेत्रविदेहविजयोद्भवाः ॥ ६७ ॥ उत्तरार्द्धमध्यखण्डे, गाङ्गसैन्धवकुण्डयोः । मध्ये वृषभकूटोऽस्ति, जम्बूद्वीपर्षभाद्रिवत् ॥ ६८ ॥ पर्यन्तेऽस्य ततः शैलो, हिमवान्नाम वर्त्तते । आयामतोऽष्टौ लक्षाणि, विष्कम्भतो भवेदियान् ॥ ६९ ॥ योजनानां द्विचत्वारिंशच्छता दशसंयुताः । चतुश्चत्वारिंशदंशाचतुरशीतिनिर्मिताः ॥ ७० ॥ तस्योपरि पद्महृदः, प्राग्वत्पद्मालिमण्डितः । सहस्रांश्चतुरो दीर्घः सहस्रद्वयविस्तृतः ॥ ७१ ॥ गङ्गासिन्धुरोहितांशास्ततो नद्यो विनिर्ययुः । प्राच्यां प्रतीच्यामुदीच्यां क्रमात्तत्रादिमे उभे ॥ ७२ ॥ ह्रदोद्गमे योजनानि, विस्तीर्णे पञ्चविंशतिम् । उद्विद्धे च योजनार्द्ध, समुद्रसंगमे पुनः ॥ ७३ ॥ विस्तीर्णे द्वे शते सार्द्धे, उद्विद्धे पञ्चयोजनीम् । तत्र सिन्धुः प्राच्यपुष्करार्द्धात्कालोदमङ्गति ॥ ७४ ॥ गङ्गा तु प्राप्य पूर्वस्यां मानुषोत्तरभूधरम् । सुमतिर्दुष्टसंसर्गादिव तत्र विलीयते ॥ ७५ ॥ पश्चिमार्द्धात्पुनर्गङ्गा, याति कालोदवारिधौ । सिन्धुर्नरोत्तरनगपादमूले विलीयते ॥ ७६ ॥ एवं नरोत्तरनगाभिमुखाः सरितोऽखिलाः । विलीयन्त इह ततः परं तासामभावतः ॥ ७७ ॥ गङ्गा सिन्धुप्रपाताख्ये, कुण्डे विष्कम्भतो मते । चत्वारिंशत्समधिकं, योजनानां शतद्वयम् ॥ ७८ ॥ तदन्तर्वर्त्तिनौ द्वीपों, प्रज्ञप्तौ विस्तृतायतौ । द्वात्रिंशद्योजनी मूलप्रवाह इव जिह्विके ॥ ७९ ॥ गङ्गासिन्धुरक्तवतीरक्ताखेतन्निरूपणम् । षट्त्रिंशशतसङ्ख्यासु, सर्वमप्यविशेषितम् ॥ ८० ॥ रोहितांशा योजनानि, पञ्चाशन्न निर्गमे । विस्तीर्णैकयोजनं चोद्विद्धोदीच्यां नगोपरि ॥ ८१ ॥ एका mational For Private & Personal Use Only ५ 38 १४ w.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy