________________
चोपरि ॥ ३६ ॥ एतावद्येोजनमितो, मानुषोत्तर भूभृतः । स्यान्मध्ये परिधिमौलौ त्वस्यायं परिधिर्भवेत् ॥३७॥ कोटिरेकाऽथ लक्षाणि, द्विचत्वारिंशदेव च । द्वात्रिंशच सहस्राणि द्वात्रिंशच शता नव ॥ ३८ ॥ पृथगुक्तौ परिक्षेपौ, यो मध्येऽस्य तथोपरि । बहिर्भागापेक्षया तौ, पार्श्वेऽस्याभ्यन्तरे पुनः ॥ ३९ ॥ समानभित्तिकतया, मूले मध्ये तथोपरि । तुल्य एव परिक्षेपः, सर्वत्राप्यवसीयताम् ॥ ४० ॥ एका कोटिर्द्विचत्वारिंशल्लक्षाणि सहस्रकाः । षट्त्रिंशञ्च शताः सप्त, त्रयोदशसमन्विताः ॥ ४१ ॥ इति वृहत्क्षेत्र समासवृत्त्यभिप्रायेण, जीवाभि गमसूत्रे 'सन्त चोदसुत्तरे जोअणसए' इत्युक्तं । एतावन्ति योजनानि दृष्टानि जिननायकैः । मानुषोत्तर शै लस्य, बाह्यस्य परिधेर्मितौ ॥ ४२ ॥ द्विचत्वारिंशता लक्षैरेककोटिसमन्विता । त्रिंशत्सहस्राश्चैकोनपञ्चाशा द्विशती तथा ॥ ४३ ॥ मानुषोत्तर शैलस्यैतावान् परिधिरान्तरः । एष एवाभ्यन्तरस्य, पुष्करार्द्धस्य चान्तिमः ॥ ४४ ॥ नृक्षेत्रस्यापि परिधिरेष एवावसानिकः । अथास्य पुष्करार्द्धस्य, मध्यमः परिधिस्त्वयम् ॥ ४५ ॥ एका कोटी योजनानां, लक्षाः सप्तदशोपरि । सप्तविंशत्यन्वितानि चत्वार्येव शतानि च ॥ ४६ ॥ कालोदस्यान्त्यपरिधिर्यः पूर्वमिह दर्शितः । स एव पुष्करार्द्धस्य, भवेत्परिधिरान्तरः ॥ ४७ ॥ द्विधेदमिषुकाराभ्यां, धातकीखण्डवत्कृतम् । अभ्यन्तरे पुष्करार्द्धे, तस्थिवद्भ्यामपागुदक् ॥ ४८ ॥ धातकीखण्डेषुकारसधर्माणाविमावपि । चतुष्कूटावन्त्यकूटस्थितोत्तुङ्गजिनालयौ ॥ ४९ ॥ एकेनान्तेन कालोदं, परेण मानुषोत्तरम् । स्पृष्टवन्तौ योज१ किंचिदधिकस्य योजनभागस्य व्यवहारेण योजनतया विवक्षणाद् चतुर्दशोत्तरसप्तशती अत्राख्याता स्यात् ॥
लो. प्र. ४७
Jain Education (ational
For Private & Personal Use Only
१३
jainelibrary.org