________________
सप्तदशोचं वलयाकृतिम् । प्रकल्प्यादि ततोऽस्याभ्यन्तराऽपहृते सति ॥१४॥ विस्तारमधिकृत्याथ, शेषस्तिकाष्ठति यादृशः । तादृशोऽयं संप्रदायात्, प्रज्ञप्तो मानुषोत्तरः॥१५॥ वसन्त्यस्योड़े सुपर्णकुमारा निर्जरा बहिः।।
मध्ये मनुष्याश्चेत्येष, त्रिधा गिरिरलङ्कृतः॥ १६ ॥ तथोक्तं जीवाभिगमसूत्रे-"माणुसुत्तरस्स णं पच्चयस्सा अंतो मणुआ उप्पि सुवण्णा बाहिं देवा" इति। जाम्बूनदमयश्चित्रमणिरत्नविनिर्मितैः । लतागृहैर्दीर्घिकाभिमण्डपैश्चैष मण्डितः॥१७॥ कूटैः षोडशभिश्चैष, समन्ताद्भात्यलङ्कतः । नानारत्नमयै रम्यैः, प्राकारोऽहालकैरिव ॥१८॥ त्रयं त्रयं स्यात्कूटानां, पया दिशां चतुष्टये । द्वादशाप्येकैकदेवाधिष्ठितानि भवन्त्यथ ॥१९॥ उक्तं च स्थानावृत्ती-"पुचेण तिन्नि कूडा दाहिणओ तिन्नि तिनि जवरेण । उत्तरओ तिन्नि भवे चउद्दिसिं| माणुसनगरस ॥ २०॥" त्ति । विदिक्षु चत्वारि तत्राग्नेय्यां रत्नाभिधं भवेत् । निवासभूतं तद्वेणुदेवस्य गरुडे-12|| शितः ॥ २१॥ रत्नोचयाख्यं नैर्ऋत्यां, वेलम्बस्यानिलेशितुः। नाना विलम्बसुखदमित्यप्येतन्निरूपितम् ॥ २२॥ पूर्वोत्तरस्यां च कूटं, सर्वरत्नाभिधं भवेत् । तत्सुपर्णकुमारेन्द्रवेणुदाले: किलास्पदम् ॥ २३ ॥ तथाऽपरोत्तरस्यां स्यात्तद्नसंचयाभिधम् । प्रभञ्जनपराख्यं च, प्रभञ्जनसुरेशितुः॥२४॥ अत्र यद्यपि रत्नादीनि चत्वारि कूटानि स्थानाइसने चतुर्दिशमुक्तानि, तथाहि-"माणुसुत्तरस्स णं पचयस्स चउद्दिसिं चत्तारि कूडा पं० तं०-रयणे रयणुचये सबरयणे रयणसंचए"इति, तथाप्येतत्सूत्रं श्रीअभयदेवसूरिभिरेवं व्याख्यातं तथाहि-"इह च दिग्ग्रहणेऽपि विदिक्ष्विति द्रष्टव्यं, तथा एवं चैतद्व्याख्यायते द्वीपसागरप्रज्ञप्तिसंग्रहण्यनुसारेणे"त्यादि। चतु
Jain Education
a
l
For Private & Personel Use Only
mallinelibrary.org