SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २३ सर्गे| पुष्करवरे मानुषोत्तरवर्णनम् ॥२७५॥ ॥ अथ त्रयोविंशतितमः सर्गः प्रारभ्यते ॥ वक्ष्येऽथ पुष्करवरद्वीपं कैकयदेशवत् । विशेषितार्द्धमावेष्ट्य, स्थितं कालोदवारिधिम् ॥१॥ वक्ष्यमाणस्वरू- पैर्यच्छोभितश्चारुपुष्करैः। ततोऽयं पुष्करवर, इति प्रसिद्धिमीयिवान् ॥ २॥ चक्रवालतयैतस्य, विस्तारो वर्णितः श्रुते । योजनानां षोडशैव, लक्षा न्यक्षार्थवेदिभिः॥३॥ द्वीपस्यास्य मध्यदेशे, शैलोऽस्ति मानुषोत्तरः। अन्विताख्यो नरक्षेत्रसीमाकारितयोत्तरः॥४॥ उभयोः पार्श्वयोश्चारुवेदिकावनमण्डितः । योजनानामेक|विंशान् , शतान् सप्तदशोच्छ्रितः॥५॥ चतुःशती योजनानां, त्रिंशां क्रोशाधिकां भुवि । मनो मूले सहस्रं च, द्वाविंशं किल विस्तृतः॥६॥त्रयोविंशानि मध्येऽयं, शतानि सप्त विस्तृतः । चतुर्विशानि चत्वारि, |शतान्युपरिविस्तृतः॥७॥ यथेष्टस्थानविष्कम्भज्ञानोपायस्तु साम्यतः । भाव्यो वेलन्धरावासगोस्तूपादिगिरिष्विव ॥ ८॥ अग्रेतनं पादयुग्मं, यथोत्तम्भ्य निषीदति । पुताभ्यां केसरी पादद्वयं संकोच्य पश्चिमम् ॥९॥ ततः शिरप्रदेशे स, विभाति भृशमुन्नतः । तथा पाश्चात्यभागे च, निम्नो निम्नतरः क्रमात् ॥१०॥ तद्वदेष गिरिः सिंहोपवेशनाकृतिस्ततः । यद्वा यवार्द्धसंस्थानसंस्थितोऽयं तथैव हि ॥११॥ समभित्तिः सर्वतुङ्गो, जम्बूद्वीपस्य दिश्ययम् । प्रदेशहान्या पश्चात्तु, निम्नो निन्नतरः क्रमात् ॥ १२॥ अत्रायं संप्रदाय:-द्वे स चतुश्चत्वारिंशे मूले सुविस्तृतम् । शतान्यष्टाष्टचत्वारिंशानि मूर्ध्नि च विस्तृतम् ॥ १३ ॥ एकविंशान् शतान् ॥२७५॥ Jain Educa t ional For Private & Personal use only Sh.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy