________________
४॥६१ ॥ हरिकूटौ द्वयोर्विद्युत्प्रभयो? हरिस्सहौ । माल्यवतोबलकूटौ, मेरुनन्दनयोश्च यौ ॥ ६२॥ एते षडपि साहस्राधानामिति मानतः। चतुस्त्रिंशाद्रिकूटानामेवं नवशती भवेत् ॥ ६३ ॥ सहेषुकारकूटैाचत्वारिंशा शता नव । तत्रेषुकारकूटानां, मानं तु नोपलभ्यते ॥ ६४॥ चतुःषष्टौ विजयेषु, भरतैरवतेषु च । स्युरष्टषष्टिवृषभकूटा एकैकभावतः॥६५॥ धातक्यादिषु चतुष्के, द्वयोश्च भद्रसालयोः । अष्टाष्टेति च सर्वाग्रे, भूकूटाः षोडशं शतम् ॥६६॥ एतेषां वक्तुमुचिते, पर्वतत्वेऽपि वस्तुतः । कूटत्वव्यवहारस्तु, पूर्वाचार्यानुरोधतः॥१७॥ महाइदा द्वादशैव, विंशतिश्च कुरुहूदाः। श्रीहीधृतिकीर्त्तिबुद्धिलक्ष्मीनां च द्वयं द्वयम् ॥ ६८॥ सहस्रा द्वादशैको त्रिशल्लक्षाश्च कीर्तिताः। तरङ्गिणीनामेतस्मिन् , द्वीपे मतान्तरे पुनः ॥ ६९॥ पश्चत्रिंशल्लक्षाणि चतु-| रशीतिः सहस्रकाश्चैव । इह संभवन्ति सरितां तत्त्वं तु विदन्ति तत्त्वज्ञाः॥७॥ (आर्या) विदेहयुग्मे | प्रत्येकं, स्युः कुण्डान्यष्टसप्ततिः। द्वे द्वे च शेषवर्षेषु, शतमेवमशीतियुक्॥ ७१॥ एतेऽद्रयो इदाः कूटाः, कुण्डान्येतान्यथापगाः । स्युर्वेदिकावनोपेतास्तत्खरूपं तु पूर्ववत् ॥७२॥ एषां याम्योदीच्यवर्षसरिच्छैलादिवतिनाम् । विजयखर्गिवत्प्रौढसमृद्धीनां सुधाभुजाम् ॥ ७३ ॥ दक्षिणस्यामुदीच्यां च, जम्बूद्वीपस्थमेरुतः। अन्यस्मिन् धातकीखण्डे, राजधान्यो जिनैः स्मृताः॥ ७४॥ श्रेण्यश्चतस्रः प्रत्येकं, वैताव्येष्विति मीलिताः। श्रेण्यो भवन्ति द्वीपेऽस्मिन् , दिशती सद्विसप्ततिः॥७५॥ दशोत्तरं पुरशतं, प्रतिवैताव्यमित्यतः । तेषां सहस्राः सप्त स्युः, साशीतिश्च चतु:शती॥ ७६ ॥ जघन्यतोऽष्टेह जिना भवेयुरुत्कर्षतस्ते पुनरष्टषष्टिः। जघ
Jain Educ
a
tion
For Private & Personel Use Only
vw.jainelibrary.org