SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे धातकीखण्डे २२ सर्गे ॥२७३॥ तथा । वत्से च नलिनावत्यां विहरन्त्यधुना जिनाः ॥ ४६ ॥ प्राचीनेऽर्द्धे सुजातोऽर्हन्, स्वयंप्रभर्षभाननौ श्रीमाननन्तवीर्यश्च, पश्चिमार्द्ध तु तेष्वमी ॥ ४७ ॥ सुरप्रभो जिनः श्रीमान्, विशालो जगदीश्वरः । जगपूज्यो वज्रधरश्चन्द्राननः प्रभुः क्रमात् ॥ ४८ ॥ एवं चात्र - श्रियं दधाते द्वौ मेरू, द्वीपस्यास्य कराविव । उद्स्तौ पृथुतादर्पान्नभसो निजिघृक्षया ॥ ४९ ॥ यद्वोद्दण्डकरौ बद्धकच्छौ च नन्दनच्छलात् । स्पर्द्धया संमुखिनौ द्वौ, महामल्लाविवोत्थितौ ॥ ५० ॥ स्थापयत्येकधाऽऽत्मानं, मेर्वेकाङ्गुलिसंज्ञया । जम्बूद्वीपेऽयमेताभ्यां द्विधा तं स्थापयन्निव ॥ ५१ ॥ अनलंभूष्णुनोत्थातुं, द्वीपेनानेन वार्द्धकात् । धृतौ दण्डाविवोद्दण्डौ, मेरु द्वाविह राजतः ॥ ५२ ॥ वर्षाद्रयो द्वादशाष्टषष्टिवैताढ्य भूधराः । दीर्घा अष्टौ च वृत्तास्ते, काञ्चनाद्रिचतुःशती ॥ ५३ ॥ वक्षस्काराद्रयो द्वात्रिंशदष्टौ गजदन्तकाः । द्वौ चित्रौ द्वौ विचित्रौ च चत्वारो यमकाचलाः ॥ ५४ ॥ इषुकारद्वयं चैवं, सर्वाग्रेणात्र भूभृताम् । चत्वारिंशा पञ्चशती, चत्वारश्च महाद्रुमाः ॥ ५५ ॥ चतुर्दशात्र वर्षाणि चतस्रः कुरवोऽपि च । षट् कर्मभूमयोऽकर्मभूमयो द्वादश स्मृताः ॥ ५६ ॥ दीर्घवैताख्येषु कूटाः, प्राग्वन्नव नवोदिताः । सक्रोशषड्योजनोचा, द्वादशा षट्शतीति ते ॥ ५७ ॥ रुक्मिमहाहिमवन्तः, कूटैरष्टभिरष्टभिः । सप्तभिश्च सौमनसौ, तथा च गन्धमादनौ ॥ ५८ ॥ मेव नन्दनवने, निषधौ नीलगिरी । विद्युत्प्रभौ माल्यवन्तौ, नवकूटाः समेऽप्यमी ॥ ५९ ॥ हिमवन्तौ शिखरिणौ, तैरेकादशभिर्युतौ । वक्षस्कारगिरीणां च, प्रत्येकं तच्चतुष्टयम् ॥ ६० ॥ त्रयः शताः स्युर्द्वाविंशाः कूटान्येतानि तत्र च । षोडशा त्रिशती प्रोक्तहिमवगिरिकूटवत् 1 Jain Education national For Private & Personal Use Only मेरुतद्वनविहरञ्जिना दिखरूपम् २० २५ ॥२७३॥ २८ ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy