SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ भवेदयम् ॥ ३० ॥ बहिासात्पञ्चशत्यास्त्यागे चोभयतः पृथक् । अन्तर्व्यासोऽष्टौ सहस्रास्त्रिशत्या सार्द्धयाधिकाः॥ ३१ ॥ सहस्राणि पश्चपञ्चाशतं पञ्चशतीं तथा । अतिक्रम्य योजनानामूर्द्ध नन्दनकाननात् ॥३२॥ अत्रान्तरे सौमनसं, स्यात्पञ्चशतविस्तृतम् । चक्रवालतया मेरोवेयकमिवामलम् ॥ ३३ ॥ बहिर्विष्कम्भोऽत्र गिरेगुरुभिर्गदितो मम । योजनानां सहस्राणि, त्रीण्येवाष्टौ शतानि च ॥ ३४ ॥ तथाहि-षट्पञ्चाशत्सहस्राणि, यान्यतीतानि भूतलात् । एषां दशमभागः स्यात्षट्पञ्चाशच्छतात्मकः॥ ३५॥ असौ भूतलविष्कम्भात्पूर्वोक्तादपनीयते । तस्थुर्यथोदितान्येवमष्टात्रिंशच्छतानि वै ॥३६॥ सहस्रापगमे चास्मात्स्यादन्तगिरिविस्तृतिः। द्वे सहस्रे योजनानां, शतैरष्टभिरन्विते ॥ ३७॥ अथैतस्माद्वनादूर्द्धमुत्क्रान्तैर्मेरुमूर्द्धनि । अष्टाविंशत्या सहस्रोजनः पण्डक वनम् ॥३८॥ चक्रवालतया तच्च, विस्तीर्ण वर्णितं जिनः । चतुर्नवत्याऽभ्यधिकां, योजनानां चतु:शतीम् ॥ ३९॥ तच्चैवं-मेरुमस्तकविष्कम्भात्सहस्रयोजनोन्मितात् । मध्यस्थचूलिकाव्यासो, द्वादशयोजनात्मकः॥४०॥शोध्यते तच्छेषमर्कीकृतं पण्डकविस्तृतिः । शेषा शिलादिस्थितियों, सा जम्बूद्वीपमेरुवत् ॥४१॥ तथैवास्य मरकतमयी शिरसि चूलिका । नानारत्ननिर्मितेन, शोभिता जिनसद्मना॥४२॥ एवं यदन्यदप्यत्र, कूटचैत्यादि नोदितम् । जम्बूद्वीपमेरुवत्तद्वक्तव्यं सुधिया धिया ॥४३॥ एवं यथाऽस्य द्वीपस्य, पूर्वाईमिह वर्णितम् । पश्चिमार्द्धमपि तथा, विज्ञेयमविशेषितम् ॥ ४४ ॥ गजदन्तप्रमाणादौ, विशेषो यस्तु कश्चन । स तु तत्तत्प्रकरणे, नामग्राहं निरूपितः॥४५॥ किंच-विजये पुष्कलावत्यां, वप्राख्ये विजये १४ Jain Educat i onal For Private & Personal Use Only G 1di ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy