________________
लोकप्रकाशे धातकीख
ण्डे २२ सर्गे
॥२७२ ॥
Jain Education
माणोऽस्य, विष्कम्भो लभ्यते गिरेः ॥ १५ ॥ यथोद्धुं चतुरशीतौ, सहस्रेषु भुवस्तलात् । गतेषु चतुरशीतिं, सहस्रान् दशभिर्भजेत् ॥ १६ ॥ लब्धानि चतुरशीतिः, शतानि तानि शोधयेत् । भूतलव्यासतः शेषा, साहस्री मूर्ध्नि विस्तृतिः ॥ १७ ॥ आम्नायोऽयं कर्णगत्या, मेरुनिन्नोन्नतत्वयोः । ज्ञेयोऽविवक्षणात्प्राग्वन्मेखलायुग्मजातयोः ॥ १८ ॥ श्रियं श्रयत्ययमपि चतुर्भिश्चारुकाननैः । दन्तैरैरावत इव, दैत्यारिरिव बाहुभिः ॥ १९ ॥ तत्र भूमौ भद्रसालवनं तरुलताघनम् । तरणित्रासितं ध्वान्तमिवैतत्पादमाश्रितम् ॥ २० ॥ प्राच्यां प्रतीच्यां प्रत्येकं तद्दीर्घं लक्षयोजनीम् । सहस्रान् सप्तसैकोनाशीतीन्यष्ट शतानि च ॥ २१ ॥ प्राच्येऽथवा प्रतीचीने, दैर्येऽष्टाशीतिभाजिते । यल्लब्धं सोऽस्य विष्कम्भो, दक्षिणोत्तरयोः स च ॥ २२ ॥ योजनानां पञ्चविंशाः, शता द्वादश कीर्त्तिताः । एकोनसप्ततिश्चांशा, अष्टाशीतिसमुद्भवाः ॥ २३ ॥ अष्टाशीत्या गुणि| तायामेतस्यां पुनराप्यते । प्राच्यां प्रतीच्यां चायामो, यः प्रागस्य निरूपितः ॥ २४ ॥ एवं प्रमाणविस्तारायाममेतद् वनं पुनः । गजदन्तमन्दराद्रिनदीभिरष्टधा कृतम् ॥ २५ ॥ तच्च जम्बूद्वीपभद्रसालवद्भाव्यतां बुधैः । तथैवैतद्वक्ष्यमाणवनकूटादिकस्थितिः ॥ २६ ॥ अथोत्क्रम्य योजनानां शतानि पश्च भूतलात् । कट्यां नन्दनवन्मेरो, राजते नन्दनं वनम् ॥ २७ ॥ तच चक्रवालतया, शतानि पञ्च विस्तृतम् । अनल्पकल्पफलदलतामण्डमण्डितम् ॥ २८ ॥ वहिर्विष्कम्भोऽत्र मेरोरुक्तान्नायेन लभ्यते । योजनानां सहस्राणि, नव द्व्यर्द्ध शतत्रयम् ॥ २९ ॥ तथाहि - उत्क्रान्तायाः पञ्चशत्या, दशभिर्भजने सति । लब्धपञ्चाशतोऽधःस्थव्यासाच्यागे
tional
For Private & Personal Use Only
उत्तरकुर्वा - दिखरूपं
२०
२५
॥ २७२ ॥
२८
lainelibrary.org