________________
लोकप्रकाशे २२ सर्गे
॥ २६९ ॥
Jain Educatio
1
चतुर्भिर्योजनै मेरोर्दूरस्था पूर्वतोमुखी । प्राग्विदेहान् विभजंती, याति कालोदवारिधी ॥ २८ ॥ वाच्योदीच्यां रम्यकान्ता तथैवैरवतादिका । क्षेत्रत्रयी शिखर्याया, नीलान्ता च नगत्रयी ॥ २९ ॥ यथेयं हरिवर्षान्ता, त्रिवर्षी भरतादिका । उक्ता हिमवदाद्या च निषधान्ता नगत्रयी ॥ ३० ॥ तद्वत्रिधा क्षेत्रमानमादिमध्यान्तगोचरम् । तावदायामविस्तारा, हृदा वर्षधरोपरि ॥ ३१ ॥ तावदेवातिक्रमणं, नदीनां पर्वतोपरि । सैवाकृति - नाममात्रे, विशेषः सोऽभिधीयते ॥ ३२ ॥ ऐरावतमुदीच्येषुकारात्खखगिरेर्दिशि । शिखरी पर्वतोऽन्तेऽस्य, | पुण्डरीकहदाञ्चितः ॥ ३३ ॥ अस्माद्रक्ता रक्तवती, खर्णकूला विनिर्ययुः । रक्तरवतमध्येन, याति कालोदवारिधिम् ॥ ३४ ॥ लवणान्धौ प्रविशति, तथैव रक्तवत्यथ । स्वर्णकूला तु कालोदं, हैरण्यवतमध्यगा ॥ ३५ ॥ परं शिखरिणः क्षेत्रं, हैरण्यवतनामकम् । विकटापातिना वृत्तवैताख्येन सुशोभितम् ॥ ३६ ॥ ततो रुक्मी नाम महापुण्डरीकदाचितः । गिरिस्ततो रूप्यकूलानरकान्ते विनिर्गते ॥ ३७ ॥ हैरण्यवतमध्येन, क्षारोदं रूप्यकूलिका । कालोदं नरकान्ता च, याति रम्यकमध्यतः ॥ ३८ ॥ ततः परं रुक्मिगिरेः, क्षेत्रं राजति | रम्यकम् । मध्ये माल्यवता वृत्तवैताख्येन विभूषितम् ॥ ३९ ॥ ततोऽपि परतो भाति, नीलवान्नाम पर्वतः । महाहूदः केसरीति, तस्योपरि विराजते ॥ ४० ॥ शीता च नारीकान्ता च ततो नद्यौ निरीयतुः । नारीकान्ता रम्यकान्तर्व्यूढेति लवणोदधिम् ॥४१॥ शीता नदी तु पूर्वोक्तरीत्या कालोदवारिधौ । व्रजति प्राग्विदेहस्थ विजयत्रजसीमकृत् ॥ ४२ ॥ योजनं द्वे च विकटापातिमाल्यवतोर्भवेत् । चत्वारि मेरोः खक्षेत्रनदीभ्यामन्तरं क्रमात्
national
For Private & Personal Use Only
धातकी ० नदीव्यव
स्था
२०
२५
॥ २६९ ॥
२८
w.jainelibrary.org