SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ हरिवर्ष विभजती, प्रयाति लवणोदधौ ॥१२॥ अथोदीच्या क्षेत्रमस्माद्धरिवर्ष विराजते । सश्रीकमध्यं यदशधापातिवैताख्यभूभृता ॥ १३ ॥ त्रयस्त्रिंशाष्टपञ्चाशच्छताठ्यां लक्षयोजनीम् । षट्पञ्चाशमंशशतं, विस्तीर्णमिदमानने ॥ १४॥ द्वे लक्षेद्वादशशती, मध्येऽष्टानवतिं तथा । योजनानामंशशतं, द्विपञ्चाशं च विस्तृतम् ॥१५॥ योजनानां षपणवत्या, सहस्रकैः समन्वितम् । लक्षद्वयं सप्तशती, त्रिषष्ट्याऽभ्यधिकां तथा ॥१६॥ अष्टचत्वारिंशमंशशतं पर्यन्तविस्तृतम् । शेषाऽस्य जम्बूद्वीपस्थहरिवर्षेसमा स्थितिः॥१७॥क्षेत्रस्यास्य च पर्यन्ते, निषधो नाम भूधरः। त्रयस्त्रिंशत्सहस्राणि, योजनानां शतानि षट् ॥१८॥ स्याद्विस्तीणे: स चतुरशीतीन्यंशाश्च षोडश । तिगिन्छिनामा वर्वति, महादोऽस्य चोपरि ॥१९॥ सहस्राणि योजनानामष्टावायामतः स च । विष्कम्भतस्तु चत्वारि, सहस्राणि भवेदसौ ॥ २०॥ दक्षिणस्यामुदीच्यां च, हृदादमान्निरीयतुः । वाहिन्यौ हरिसलिलाशीतोदे ते नगोपरि ॥ २१॥ योजनानां सहस्राणि, चतुर्दश शतानि च । अष्टौ द्विचत्वारिंशानि, परिक्रम्याष्ट चांशकान् ॥ २२॥ खखजिहिकया खखकुण्डे निपततस्ततः । हरिः खवृत्तवैतात्यायोजन द्वितयान्तरा ॥ २३ ॥ हरिवर्षाभिधं वर्ष, द्विधा विदधती सती। कालोदाब्धौ निपतति, रमेवाच्युतवक्षसि ॥ २४ ॥ चतुर्भिः कलापकम् । शीतोदा च देवकुरुभद्रसालविभेदिनी । चतुर्भिर्योजनैर्मेरो रस्था पश्चिमोन्मुखी ॥ २५॥ प्रत्यग्विदेहविजयसीमाकरणकोविदा । गोत्रवृद्धव मध्यस्था, यात्यन्ते लवणोदधिम् ॥ २६ ॥ शीताप्येवं नीलवतो, निर्गता केसरिड्दात् । कुण्डोत्थितोत्तरकुरुभद्रसालप्रभेदिनी ॥ २७ ॥ । Jan Education anal For Private 3 Personal Use Only Mainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy