SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २२ सर्गे ॥२६८ ॥ Jain Education निवर्त्य दक्षिणामुखे । कुण्डे निपत्य विशतः, कालक्षारोदधी क्रमात् ॥ ९७ ॥ रोहितांशा तुत्तरस्यां योजनानि नगोपरि । द्विपञ्चाशां पञ्चशतीं, त्रिपञ्चाशल्लवाधिकाम् ॥ ९८ ॥ अतिक्रम्य निजे कुण्डे, निपत्य योजनान्तरा । शब्दापातिगिरेः प्रत्यक्, प्रवृत्ता लवणेऽविशत् ॥ ९९ ॥ अथास्माद्धिमवच्छैलादुत्तरस्यां व्यवस्थितम् । क्षेत्रं हैमवताभिख्यमाकृत्या भरतोपमम् ॥ १०० ॥ षड्विंशतिं सहस्राणि, योजनानां चतुःशतीम् । अष्टपञ्चाशां लवान् द्वानवतिं विस्तृतं मुखे ॥ १ ॥ पञ्चाशतं सहस्राणि चतुवैिशं शतत्रयम् । चतुश्चत्वारिंशमंशशतं मध्ये च विस्तृतम् ॥ २ ॥ योजनानां सहस्राणि चतुःसप्ततिमन्ततः । नवत्याढ्यं शतं षण्णवत्याढ्यं च शतं लवान् ॥ ३ ॥ मध्येऽस्य शब्दापातीति, वृत्तवैताढ्यपर्वतः । सहस्रयोजनोत्तुङ्गः, सहस्रं विस्तृतायतः ॥ ४ ॥ अयं जम्बूद्वीपशब्दापातिना सर्वथा समः । तद्वत्सप्तान्येऽपि वृत्तवैताढ्या इह तत्समाः ॥ ५ ॥ अद्रिरस्यान्ते च महाहिमवान् योजनानि सः । एकविंशानि चतुरशीतिशतान्यथांशकान् ॥ ६ ॥ पूर्वोक्तमानांश्चतुरो, विस्तीर्णस्तस्य चोपरि । पद्मः परिष्कृतो भाति, महापद्माभिधो हृदः ॥ ७ ॥ योजनानां सहस्राणि, चत्वार्येवायमायतः । विष्कम्भतो योजनानां सहस्रद्वितयं भवेत् ॥ ८ ॥ दक्षिणस्यामुदीच्यां च नद्यौ द्वे निर्गते ततः । रोहिता हरिकान्ता च, पर्वतोपर्युभे अपि ॥ ९ ॥ योजनानां शतान् द्वात्रिंशतं गत्वा दशोत्तरान् । चतुश्चत्वारिंशतं च भागान् जिह्निकया गिरेः ॥ १० ॥ पततः खखकुण्डेऽथ, कालोदं याति रोहिता । द्विधा कृत्वा हैमवतं, वैताढ्यायोजनान्तरा ॥ ११ ॥ हरिकान्ता च वैताढ्यायोजन द्वितयान्तरा । ational For Private & Personal Use Only धातकी ० नदीकुण्डमानादि २० २५ ॥२६८ ॥ २८ jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy