________________
रिंशा द्विशत्यासां, कुण्डेष्वायतिविस्तृती। द्वात्रिंशद्योजनान्यासां, द्वीपाआयतविस्तृताः॥ ८२॥ नारीकान्ता नरकान्ता, हरिकान्ताभिधा नदी। हरिसलिलेत्यष्टानां, सरितां मूलविस्तृतिः॥ ८३ ॥ पश्चाशद्योजनान्यासां, पर्यन्तविस्तृतिः पुनः। योजनानां पञ्च शतान्युक्तानि तत्ववेदिभिः॥८४॥ आसां कुण्डायतिव्यासावशीतियुक् चतुःशती । चतुष्षष्टिोजनानि, द्वीपाश्चायतविस्तृताः॥ ८५॥ शीताशीतोदाभिधानां, निम्नगानां चतसृणाम् । आद्यान्तयोः क्रमाद्यासा, शतं सहस्रमेव च ॥८६॥ सषष्टिनवशत्यासां, कुण्डेवायतिविस्तृती। अष्टाविंशं शतं चासां, द्वीपा आयतविस्तृताः॥ ८७ ॥ षट्त्रिंशं शतमष्टौ च, पुनरष्टौ चतुष्टयम् । चतुर्विधानामित्यासामाद्यन्तोद्विद्धता क्रमात् ॥ ८८॥ गव्यूतं योजने साढे, द्वौ क्रोशौ पञ्चयोजनी । योजन दश चैतानि, योजने द्वे च विंशतिः॥ ८९ ॥ अन्तर्नदीनां सर्वासामपि प्रारभ्य मूलतः। पर्यन्तं यावदुद्वेधस्तुल्यः स्यात्पश्चयोजनी ॥९॥ स्वकीयमूलविस्तृत्या, जिहिकाविस्तृतिः समा । मूलोद्वेधसमश्वासां, सर्वासा जिहिकोच्छ्रयः ॥ ९१ ॥ उक्तशेषं तु स्वरूपं, सकलं वेदिकादिकम् । एताखप्यनुसंधेयं, जम्बूद्वीपनदीगतम् ४॥९२॥ पूर्वाभिमुख्याः पूर्वार्द्ध, कालोदे यान्ति निम्नगाः । क्षारोदमपरोन्मुख्योऽपरार्द्ध तु विपर्ययः॥ ९३ ॥
आसामित्युक्तो विशेषः, प्रसङ्गाल्लाघवाय च । तत्र तत्र नाममात्रं, स्थानाशीन्याय वक्ष्यते ॥ ९४ ॥ अथ प्रकृतं-अथैतस्मात्पद्महदान्नद्यस्तिस्रो विनिर्गताः । गङ्गासिन्धुरोहितांशाः, पूर्वापरोत्तराध्वभिः॥ ९५ ॥ तत्र गङ्गा च सिन्धुश्च, पूर्वपश्चिमयोर्दिशोः । निर्गत्य खदिशोर्गत्वा, यथार्ह पर्वतोपरि ॥९६ ॥ खखावर्तनकूटाभ्यां,
१४.
Jan Education
For Private
Personal Use Only
abelibrary.org
A