________________
पवतः
लोकप्रकाशे नात् । असंख्यद्वीपाब्धिपरो, द्वीपोऽरुणवराभिधः ॥ १७ ॥ तस्य बाह्यवेदिकान्तान्मध्येऽरुणवराम्बुधेः। योज- उत्पात१३ सर्गे नानां द्विचत्वारिंशत्सहस्राण्यतीत्य वै ॥ १८ ॥ चमरस्यासुरेन्द्रस्य, महानुत्पातपर्वतः। तिगिन्छिकूटनामास्ति, ॥१४३॥
प्रशस्तश्रीभरोद्भुरः ॥ १९ ॥ योजनानां सप्तदश, शतान्यथैकविंशतिः। स उच्छ्रितस्तत्तुयांशो (४३०), निमग्नो ६ १५ वसुधान्तरे ॥२०॥ मूले सहस्रं द्वाविंशं, योजनानां स विस्तृतः। मध्ये शतानि चत्वारि, चतुर्विशानि विस्तृतः ॥२॥ शतानि सप्त विस्तीर्णस्त्रयोविंशानि चोपरि । ऊध्र्वाधो विस्तृतो मध्ये, क्षामो महामुकुन्दवत् ॥ २२॥४ मुकुन्दो वाद्यविशेष इति ॥ सर्वरत्नमयस्यास्य, वेदिकावनशालिनः । शिरस्तले मध्यदेशे, स्यात्प्रासादावतंसकः॥२३॥ साढ़े दे योजनशते, तुङ्गः सपश्चविंशतिः। ततः शतं योजनानि, रम्योल्लोकमहीतलः ॥२४॥ अष्टयोजनमानाथ, तत्रास्ति मणिपीठिका । चमरेन्द्रस्यात्र सिंहासनं सहपरिच्छदम् ॥ २५ ॥ तिर्यग्लोकं जिगमिषुर्जिनजन्मोत्सवादिषु । प्रथमं चमरेन्द्रोऽस्मिन्नुपैति स्वाश्रयागिरौ ॥ २६ ॥ ततो यथेप्सितं स्थानमुत्पतत्यविलम्बतः । तेनायं चमरेन्द्रस्य, ख्यात उत्पातपर्वतः॥ २७ ॥ षट् शतान्यथ कोटीनां, पञ्चपञ्चाशदेव च। कोव्यो लक्षाण्यथ पञ्चत्रिंशल्लक्षार्द्धमेव च ॥ २८ ॥ योजनानि तिर्यगस्मात्तिगिन्छिकूटपर्वतात् । अतिक्रम्य दक्षिणस्यां, ॥१४३॥ मध्येऽरुणवरोदधेः॥ २९॥ यो देशस्तदधोभागे, मध्ये रत्नप्रभाक्षिते। चत्वारिंशद्योजनानां, सहस्राण्यवगाह्य च॥३०॥राजधान्यस्ति चमरचञ्चा चञ्चन्मणीमयी। व्यासायामपरिक्षेपैर्जम्बूद्धीपसधर्मिणी ॥३१॥ वन
Jain Educati
o
nal
For Private Personel Use Only
MAMw.jainelibrary.org