SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ IS नानि रत्नप्रभायां बाहल्यार्द्धमवगाह्य मध्ये भवंतीत्युक्त"मिति ज्ञेयं । चतुस्त्रिंशत्क्रमात्रिंशल्लक्षाः स्युर्दक्षिणो त्तराः। भवना असुराणां ते, चतुरः षष्टिश्च मीलिताः ॥५॥ लक्षाश्चतुश्चत्वारिंशञ्चत्वारिंशद् द्वयोर्दिशोः। नागालयानां चतुरशीतिर्लक्षाश्च मीलिताः॥६॥ अष्टात्रिंशचतुस्त्रिंशल्लक्षाः क्रमाद् द्वयोर्दिशोः। सर्वाग्रेण सुपर्णानां, गृहलक्षा द्विसप्ततिः॥७॥ चत्वारिंशच षट्त्रिंशद्दक्षिणोत्तरयोः क्रमात् । वैधुता वासलक्षाः स्युः, षट्सप्ततिश्च मीलिताः॥८॥ एवमग्निकुमाराणां, द्वीपवादिदिशां तथा। विद्युत्कुमारवत्संख्या, भवनानां प्रकीर्तिता ॥९॥ पञ्चाशदथ षट्चत्वारिंशदिशोईयोः क्रमात् । लक्षा वायुसुरावासाः, सर्वे षण्णवतिश्च ताः॥ ॥१०॥ चत्वारिंशत्तथा षट्त्रिंशदुक्ता दिग्द्वये क्रमात् । स्तनितानां गृहाः सर्वे, लक्षाः षट्सप्ततिः किल ॥११॥ स्थापना ॥ चतस्रः कोटयो लक्षाः, षड् गृहा दक्षिणाश्रिताः। उत्तराहास्तु षट्षष्टिलक्षास्तिस्रश्च कोटयः॥१२॥ द्वयोर्दिशोश्च सर्वाग्रं, भवनानामुदाहृतम् । कोटयः सप्त लक्षाणां, द्वासप्तत्या समन्विताः॥१३॥ आकारेण सुषमया, प्राकारपरिखादिभिः। व्यन्तराणां नगरवत्, प्रायो ज्ञेयान्यमून्यपि ॥१४॥ गुरूणि तान्यसंख्येयर्मितानि खलु योजनैः। मध्यानि संख्येयैर्जम्बुद्वीपाभानि लघून्यपि ॥१५॥ तत्रासुरनिकायस्य, दक्षिणस्यां दिशि प्रभुः। चमरेन्द्रः शरचन्द्रचन्द्रिकाविलसद्यशाः॥१६॥ तथाहि-विद्यते दक्षिणदिशि, तिर्यग्मेरोः सुदर्श। १ आवसानामुपरिष्टाद् स्थानश्रुतेः भवनानां नारकावासासन्नतया स्थानश्रुतेरेवंविभागः, बाहुल्येनैवं भावे अत्र अग्रे प्रतिनिकायं स्थानभेदेऽपि न विरोधः। Jain Educatiodihational For Private & Personal Use Only View.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy