SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्वास्या योजनानामप्यर्द्ध शतमुन्नतः । पञ्चाशद्विस्तृतो मूले, मौलौ द्वादश सार्द्धकाः ॥ ३२ ॥ आयतैर्यो जनस्यार्द्ध, न्यूनार्द्धयोजनोच्छ्रितैः । क्रोशं विस्तीर्णैश्च रम्या, रत्नजैः कपिशीर्षकैः ॥ ३३ ॥ एकैकस्यां सवाहायां, पञ्चद्वारशताश्चितः । सार्द्धं द्वे योजनशते द्वारं चैकैकमुच्छ्रितम् ॥ ३४ ॥ सपादशतविस्तीर्णतोरणाद्युपशोभितम् । मध्येऽथ वप्रस्यैतस्य, पीठबन्धो विराजते ॥ ३५ ॥ योजनानां षोडशेष, सहस्रान्विस्तृतायतः । पद्मवरवेदिकया, परीतः काननेन च ॥ ३६ ॥ तस्य मध्ये रम्यभूमावस्ति प्रासादशेखरः । सार्द्धं द्वे योजनशते, तुङ्गस्तदर्द्धविस्तृतः ॥ ३७ ॥ चतुर्भिरेष प्रासादैश्चतुर्द्दिशमलङ्कृतः । शतं सपादमुत्तुङ्गैः सार्द्धद्विषष्टिविस्तृतैः ॥ ३८ ॥ प्रत्येकमेतेऽपि चतुर्द्दिशं चतुर्भिराश्रिताः । सार्द्धं द्विषष्टिमुत्तुङ्गैस्तदर्द्धविस्तृतैस्तथा ॥ ३९ ॥ सपादैकत्रिंशदुच्चैस्तदर्द्ध विस्तृतैर्वृताः । प्रासादास्तेऽपि प्रत्येकं पुनस्तेऽपि चतुर्दिशम् ॥ ४० ॥ ससार्द्धद्विक्रोशपञ्चदशयोजनतुङ्गकैः । तदर्द्धविस्तृतैरेवं, चतुर्दिशमलङ्कृताः ॥ ४१ ॥ एवं समूलप्रासादाः, प्रासादाः सर्वसंख्यया । चमरस्य भवत्येकचत्वारिंशं शतत्रयम् ॥ ४२ ॥ प्रासादास्ते रत्नमया, मरुञ्चञ्चलकेतवः । मृदुस्पर्शाश्चारुगन्धा, दृश्याः सुवर्णवालुकाः ॥ ४३ ॥ अथ प्रासादेभ्य एभ्य, ऐशान्यां स्युर्यथाक्रमम् । सभा सुधर्मा सिद्धायतनं सभोपपातकृत् ॥ ४४ ॥ इदोऽभिषेकालङ्कारव्यवसायसभाः क्रमात् । सर्वेऽप्यमी सुधर्माद्याः, षट्त्रिंशयोजनोच्छ्रिताः ॥ ४५ ॥ दीर्घाः पञ्चाशतं पञ्चविंशतिं विस्तृता इह । वैमानिकसभादिभ्यो मानतोऽर्द्धमिता इति ॥ ४६ ॥ इत्यर्थतो भगवतीद्वितीयशताष्टमोद्देशके ॥ अत्रायं विशेष:- " चमरस्स णं सभासु हम्मा एकावन्नखम्भसय Jain Educatinational For Private & Personal Use Only १० १४ www.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy